पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ]३३ 1 चतुर्थ प्रकरणम् । तदभावे गुरुसुते तथा सब्रह्मचारिणि । कामतो वाश्रमान्यत्वं स्वधर्मो ब्रह्मचारिणः ॥ २३ ॥

समेखलो जटी मुण्डो दण्डी वा गुरुसंश्रयः ।

आ विद्याग्रहणाद् गच्छेत् कामतो वाश्रमान्तरम् ॥ २४ ॥

अग्निहोत्रोपचरणं जीवनं च स्वकर्मभिः ।

धर्मदारेषु "कल्येषु पर्ववर्ज रतिक्रिया ॥ २५ ॥ स्नानम् । भैक्षं यद् भिक्षोपात्तं तदेव भोक्तव्यम् । एवं तावद् वेदब्रह्मचारिण उपकुर्वा - णस्या समावर्त्तनाद्, आ मरणा नैष्ठिकस्य । तस्य विशेषमाह - गुरौ आचार्यस्य कुले । प्राणान्तिकी स्थितिः अवस्थानम् । प्राण एवान्तोऽवधिरस्या इति विग्रहः ॥ २२ ॥ तदभावे गुरुसुत इति द्वितीयः कल्पः । तस्याप्यभावे सब्रह्मचारिणि समानचरणे तुल्यशाखाध्यायिनीति तृतीयः । कामतश्चाश्रमान्यत्वं, यदि ब्रह्मचारी नैष्ठिकत्वं नेच्छेत् ॥ २३॥ यश्च वेदब्रह्मचारी, स चाप्या विद्याग्रहणाद् गुरुकुलसंश्रितो गृहीतव्रतलिङ्गः स्यादित्याह -- समेखल इत्यादि । तत्र जटी मुण्डो वा स्यात् । तयोर्मेखला दण्डकाष्ठं च समानम् । गच्छेत् कामतो वाश्रमान्तरमिति । अत्र “ आश्रमादाश्रमान्तरं गच्छेदि” त्यस्मात् स्मृतिवाक्यात् क्रमेणोत्तरोत्तरमाश्रमं गच्छेदिति प्रथमः कल्पः । कामतो वेति द्वितीयः । तत्र ब्रह्मचारी गृहस्थश्च स्वेच्छया स्वधर्ममपास्य परिव्राड्धर्मं संश्रयेद्, वानप्रस्थधर्मं तु गृहस्थ एव, तत्राग्निहोत्रसम्भवात् ॥ २४॥ गृहस्थधर्ममाह – अग्निहोत्रोपचरणमिति आहिताग्नित्वम् । जीवनं स्वकर्मभिः ब्राह्मणादेः स्वेन स्वेन कर्मणा वृत्तिः । धर्मदारेषु धर्मविवाहपरिगृहीतेषु । काले ऋतुकाले प्राप्ते । रतिक्रिया धर्मप्रजार्था । तत्रापि पर्ववर्जम् अष्टमीचतुर्दशी- पञ्चदशीपरिहारेणेत्यर्थः ॥ २५ ॥ १. 'लोऽजिनी दण्डी मुण्डो वा क. पाठः २. 'कु' ग. पाठः ३. 'जी' ख. पाठः, 'यी' ग. पाठ. ४. 'तो' ख-ग. पाठः. ५. 'णा' क. पाठः. ६. 'णं गु' ग घ पाठः.

  • कल्येषु निरामयेषु । व्याख्यातृपक्षे तु 'काले तु' इति पाठो भवेत् ।