पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३२ कामन्दकीय नीतिसारे [ द्वितीयः याजनाध्यापने शुद्धे विशुद्धच्च प्रतिग्रहः । वृत्तित्रयमिदं प्रोक्तं मुनिभिर्ज्येष्ठवर्णिनः ॥ १९ ॥ शस्त्रेणाजीवनं राज्ञो भूतानां चाभिरक्षणम् । पाशुपाल्यं कृषिः पण्यं वैश्यस्याजीवनं स्मृतम् ॥ २० ॥

शूद्रस्य धर्मः शुश्रूषा द्विजानामनुपूर्वशः । 

शुद्धा च वृत्तिस्तत्सेवा कारुचारणकर्म च ॥ २१ ॥ गुरौ वासोऽग्निशुश्रूषा स्वाध्यायो व्रतचारणम् ।

त्रिकालस्नायिता भैक्षं गुरौ प्राणान्तिकी स्थितिः ॥ २२ ॥

शुद्धे असामान्ये ब्राह्मणस्यैव । प्रतिग्रहश्च शुद्धः । स च विशुद्धात् अभि- शस्तपतितादिवर्जम् । एते च वर्त्तनार्थाः । यथाह -- वृत्तित्रयमिति । ज्येष्ठवर्णिनः ब्राह्मणस्य ॥ १९ ॥ 1 राज्ञ इति । क्षत्रियस्येज्यादयो धर्माः, शस्त्रेण त्वाजीवर्नम्भूतानां चाभिरक्षणम् आपन्नानाम् । यद्यप्यत्र रक्षणमेव कुर्वन् शस्त्रेणाजीवनं लभते, तथापि विनाप्या- जीवनेनापन्नत्राणं कर्त्तव्यमिति भूताभिरक्षणग्रहणेन ज्ञापयति । वैश्यस्येज्यादयो धर्माः, पाशुपाल्यादि वृत्तये । वार्त्तेति वक्तव्ये त्रयाणामुपादानं पूर्वपूर्वाभावे उत्तरो- त्तरप्रतिपत्त्यर्थम् ॥ २० ॥ शुश्रूषा परिचर्या शूद्रस्य धर्मः । अनुपूर्वश इति । सति ब्राह्मणे न तावत् क्षत्रियस्य क्षत्रिये वा न वैश्यस्येति । शुद्धा च वृत्तिरिति चशब्दाद् वार्त्ता च सामान्या । तत्सेवा द्विजातीनामेव भृत्यतामुपगम्य । कारुकर्म तक्षणादि, चारण- कर्म नृत्तगीतवाद्यादि ॥ २१ ॥ आश्रमव्यवस्थां दशभिः श्लोकैराह --- गुरावित्यादि । गुरौ वासः गुरुकुले यावद्विद्याग्रहणम् । अग्निशुश्रूषा अग्निकार्यम् । स्वाध्यायः यस्मिन् वेदे व्रतं चरति स एवाध्येर्तव्य इति स्वग्रहणम् । व्रतचारणं ब्रह्मचर्यम् । त्रिकालस्नायिता त्रिसन्ध्यं १. 'चैव', 'चोभे' इति च मूलकोशेषु पाठः.. २. 'द्वश्व' क पाठः ३. 'प्राहुर्मुनयो ज्ये' क. पाठः. ४. 'ज्ञां' ख. पाठः. ५. 'श्यानां जी' क. पाठः. ६. 'वर्णाना' क पाठः. ७. 'रिता' । खग पाठ: ८ 'नमवलम्बनम् ।भू' ग घ पाठः ९. 'ध्येय इ' ग घ पाठः.