पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः चतुर्थे प्रकरणन् ।३१ विद्याभिराभिनिपुणं चतुर्वर्गमुदारधीः । विद्यात् तदासां विद्यात्वं 'विदं ज्ञाने' निगद्यते ॥ १७ ॥ ( इति विद्याविभागो नाम तृतीयं प्रकरणम् )

  • ४ वर्णाश्रमव्यवस्थाप्रकरणम् *

इज्याध्ययनदानानि यथाशास्त्रं सनातनः । ब्राह्मणक्षत्रियविशां सामान्यो धर्म उच्यते ॥ १८ ॥ कथमेता विद्या इत्युच्यन्त इति निर्वचनं दर्शयति - विद्याभिरित्यादिना । आभिश्चतुर्वर्गो वेद्यत इति विद्याः । अयं सङ्क्षेपार्थः । निपुणं यथावत् । चतुवर्गों मोक्षेण सह । तस्य चाधिगमाय योगशास्त्रमान्वीक्षिकीति विशेषः । तथाचोक्तं " साङ्ख्यं योगो लोकायतं चान्वीक्षिकी" (कौटि. अर्थ. १-१-१ ) ति । उदारधीरिति निर्मलप्रज्ञः । अचक्षुषो विद्याप्रदीपः किं कुर्यादिति ज्ञापयति । 'विद ज्ञान' इत्यनेन लाभाद्यर्थधातुव्यवच्छेदादान्वीक्षिक्याद्या ज्ञानविद्येति दर्शयति । एवञ्च ज्ञानविद्याधिकारात् सत्योऽप्यन्याः कर्मविद्या व्यापारव्यायामप्रयोजना नोक्ताः॥१७॥ ( इति विद्याविभागो नाम तृतीयं प्रकरणम् ) एवं धर्ममालोच्य लोके प्रवर्तितविद्यश्चतुर्वर्णाश्रमलक्षणं लोकं स्वधर्मकर्मसु व्यवस्थापयेदिति तद्व्यवस्थोच्यते । तत्राश्रमाणां वर्णान्तर्भावेऽपि पृथक्करणं कर्मभे- दज्ञापनार्थम् । तत्र.वर्णव्यवस्थां * चर्तुर्दशभिः श्लोकैराह - इज्येत्यादि । इज्या द- र्शपूर्णमासादि । अध्ययनं वेदाध्ययनमेव । दानं दक्षिणादानादि । यथाशास्त्रं य- थागमम् । तथाहि –– राजसूयाश्वमेधौ क्षत्रियस्यैव विहितौ । सनातनो नित्यः । एतदपरिहारेणान्यत् करणीयमिति दर्शयति । धर्म उच्यते तस्य धर्मार्थत्वात् ॥ १८॥ --- १. 'दिर्शाने निरुच्यते' क. पाठः. २. 'तुर्भिः ' च पाठः.

  • आश्रमपृथक्कृतवर्णव्यवस्था चतुर्भिः, आश्रमव्यवस्था दशभिरित्याहत्य चतुर्दशभि: क्रोडा- कृताश्रमवर्णव्यवस्थोच्यत इत्याशयो भवेत्.