पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३० कामन्दकीय नीतिसारे [द्वितीयः पाशुपाल्यं कृषिः पण्यं वार्ता वार्ता तु जीवनम् ।

सम्पन्नो वार्तया साधु नावृत्तेर्भयमृच्छति ॥ १४ ॥
दमो दण्ड इति प्रोक्तस्तात्स्थ्याद् दण्डो महीपतिः । 

तस्य नीतिर्दण्डनीतिर्नयनोन्नीतिरुच्यते ॥ १५ ॥

तयात्मानं च शेषाश्च विद्याः पायान्महीपतिः । 

विद्या लोकोपकारिण्यस्तत्पाता हि महीपतिः ॥ १६ ॥ पाशुपाल्यं पशुपालनकर्म गवाश्वादीनां पोषणचिकित्सादि । तच्च तन्त्रं गौतमशालिहोत्रादिप्रणीतम् । कृषिः पराशरप्रोक्ता बीजवापपरिकर्मादिविधानार्था । पण्यं व्यवहर्त्तव्यं क्रयविक्रयस्वरूपं, वाणिज्यमिति यावत् । तच्च विदेहराजप्रोक्तम् । वार्त्ता वर्त्तते जीवति लोकोऽनयेति कृत्वा । यदाह - वार्त्ता तु जीवनमिति । साधु सम्पन्न इति सम्बन्धः ॥ १४ ॥ दमो दण्ड इति । दमशब्दो दण्डप्रकृतावुपायविशेषे च दण्डे वर्त्तते । तत्र सर्वप्रकृतिविर्षेयत्वं नयस्येति दण्डप्रकृतिमपास्य निग्रहस्वरूपमुपायमाश्रित्या- ह-दमो दण्ड इति । सामदानभेदसम्भवेऽपि प्रायोऽनेनैव नीतेर्व्यपदेशः, लोकस्य दोषबाहुल्यात् । यदाहुः --- "सर्वो दण्ड जितो लोको दुर्लभो हि शुचिः क्वचित् । दण्डस्य हि भयात् कृत्स्नं जगद् भोगाय कल्पते" || इति । अथवा दण्डशब्दोऽत्र दमनमात्रवृत्तिः स्वपरपक्षद्मनोपायाशेषसामाद्युपग्राही द्रष्टव्यः । स चोभयथापि राजाश्रित इति तात्स्थ्याद् दण्डो महीपतिः तस्य नयनात् प्रवर्त्तनात् नीतिर्दण्डनीतिः । राजविद्येत्यर्थः ॥ १५ ॥ तस्य व्यापारमाह --- तयेत्यादि । आत्मानं पायात्, अन्यथा स्वपरेभ्यो न रक्षितः कथमन्यद् रक्षेत् । शेषा विद्याः आन्वीक्षिकीत्रयीवार्त्ताः । लोकोपकारिण्य इति सतीत्वं दर्शयति । तत्पाता हि महीपतिरिति । लोकवती मही, तस्याः कथं पतिः, यदि तदुपकारिणीर्विद्या न पायात् ॥ १६ ॥ १. 'नु' इति मूलकोशेषु पाठः. २. 'नं नी' क. पाठ: क.ख. पाठः, ४. ' विशेषत्वान' ग घ पाठः. 'us दण्डशब्दो वर्त्तते'