पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] तृतीयं प्रकरणम् ।२५ आन्वीक्षिक्यात्मविद्या स्यादीक्षणात् सुखदुःखयोः । ईक्षमाणस्तया तत्त्वं हर्षशोकौ व्युदस्यति ॥ ११ ॥

ऋग्यजुःसामनामानस्त्रयो वेदास्त्रयी स्मृता ।

उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥ १२ ॥

अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । 

धर्मशास्त्रं पुराणं च त्रयीदं सर्वमुच्यते ॥ १३ ॥

( शिक्षा व्याकरणं कल्पो ज्योतिषामयनं तथा ।
छन्दः सह निरुक्तेन वेदाङ्गानि वदन्ति षट् ॥ )

विद्यानां स्वरूपं भेदं च षड्भिः श्लोकैराह - आन्वीक्षिकीत्यादि । आत्मविद्या पदार्थस्वभावविद्या, हेतुविद्येति यावत्, तया हीदं सुखसाधनम् इदं दुःखसाधनमिति पदार्थतत्त्वान्वीक्षणात् । ततश्च तया तत्त्वमीक्षमाणो हर्षशोकौ व्युदस्यति । तद् यथा –- प्राप्तापि क्षणभङ्गुरा वृद्धिरित्यभ्युदये हर्षमपनयति, दृष्टा च जीवतामात्मवतां पुनरावृत्तिर्नलादीनामिवेति व्यसने शोकम् ॥ ११ ॥ यो वेदा इति । धर्माधर्मवेदनाद् वेदाः । ते चैककार्यापेक्षयां समुदिता- स्त्रयीसंज्ञिताः । यथाविधि यथास्वं प्रवर्त्तितधर्मकर्मा तत्र तिष्ठस्त्रिवर्गप्राप्त्या लोकद्वयमाप्नोति ॥ १२ ॥ - परिशिष्टव्यापारविधानार्थं साकल्येन त्रयीस्वरूपं दर्शयति – अङ्गानीत्यादिना । तत्राङ्गानि षट्, शिक्षा कल्पो व्याकरण छन्दोविचितिर्निरुक्तं ज्योतिषं चेति । वेदाश्चत्वारोऽथर्ववेदेन सह । स चाभिचारकर्मज्ञानादिफलः । मीमांसा वेदार्थव्याख्या । न्यायविस्तरो न्यायशास्त्रं साङ्ख्यादि । धर्मशास्त्रं मानवादि । पुराणम् अशेषलोकोत्पत्ति संहारादिज्ञानफलम् ॥ १३ ॥ 1 १ १. 'द्वी 'क. पाठः. २. 'यात्र स ग घ. पाठः + धनूरेखाङ्कितं पद्यं क पुस्तके व्याख्यायां च न दृश्यते. ३. 'दिशास्त्रम् । व' क-ख. पाठः.