पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२८ कामन्दकीय नीतिसारे द्वितीयः आन्वीक्षिकीत्रयीवार्त्ताः सतीर्विद्याः प्रचक्षते । सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥ ८ ॥ दण्डनीतिर्यदा सभ्यतारमधितिष्ठति । तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ ९ ॥ वर्णाचैवाश्रमाचैव विद्यास्वासु प्रतिष्ठिताः । [ रक्षेत् ता रक्षणात् तासां तद्धर्मस्यांशभाङ् नृपः ॥ १० ॥ यथावस्थितभावस्वभावावेदनम् आत्मविज्ञानम् । तदान्वीक्षिक्यां स्थितं फलम् । धर्माधर्मौ त्रयीस्थितौ । तत्रेज्याध्ययनादिधर्मः श्वमांसभक्षणादिरधर्मः | अर्थानर्थों वार्त्तायां स्थितौ । काले बीजवापनादिनिष्पन्नोऽर्थः । अकालबीजवापादिनिष्पन्नोऽनर्थः । दण्डनीत्यां नयेतरौ तत्र नयानयौ स्थितौ । ज्यायसा सन्धिर्योगक्षेमनिष्पा- दकत्वान्नयः विग्रहस्त्वनिष्पादकत्वादितर: अपनय इत्यर्थः ॥ ७ ॥

परस्परविसदृशफलत्वेऽप्यासां प्रवृत्तिः प्रधानगुणभावेन । तत्र दण्डनीतेः प्रधानभावेन, शेषाणां गुणभावेन, तदन्वयव्यतिरेकानुविधानात् । तदेव दर्शयति- आन्वीक्षिकीत्यादिना श्लोकद्वयेन । सतीरिति विद्यमानाः साक्षाल्लोकोपकारित्वात् । सत्योऽपि हि न सत्य इति । सदस्यसदिवाविशेषादिति मन्यते । विप्लव इति दण्डनीतेरयथावत्प्रवृत्तावप्रवृत्तौ बेत्यर्थः ॥ ८ ॥ सम्यङ्नेतारमिति सम्यक्प्रयोक्तारम् । सम्यगुपासते तामु तद्विहितेषु चार्थेषु सम्यगनुष्ठानात् ॥ ९ ॥ विद्यास्वा प्रतिष्ठिता इति तिसृणां सतीत्वं प्रतिपादयति । प्रतिष्ठिताः आस्विति सम्बन्धः । रक्षेत् ता इति दण्डनीतेर्व्यापारं दर्शयति । अंशभाक् षष्ठां- शभाक् । अरक्षणे चाधर्मः स्यादित्यर्थोक्तम् ॥ १० ॥ १. 'सर्वाश्र' क. पाठः, २. 'संयोगो यो' ग घ. पाठः. ४. 'त्तावपीत्य' घ. पाठ:. ३. 'त्रयेण' । क-ख. पाठः,