पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्ग: 1 तृतीयं प्रकरणम् । २७. त्रयी वार्त्ता दण्डनीतिस्तिस्रो विद्या हि मानवाः । त्रय्या एव विभागोऽयं येयमान्वीक्षिकी मता ॥ ३ ॥

वार्ता च दण्डनीतिश्च द्वे विद्ये इत्यवस्थिताः ।
लोकस्यार्थप्रधानत्वाच्छिष्याः सुरपुरोधसः ॥ ४॥ 

एकैव दण्डनीतिस्तु विद्येत्यैौशनसाः स्थिताः ।

तस्यां हि सर्वविद्यानामारम्भाः सम्प्रतिष्ठिताः ॥ ५ ॥
विद्याश्चतस्र एवैता इति नो गुरुदर्शनम् ।
पृथक् पृथक् प्रसिद्ध्यर्थं यासु लोको व्यवस्थितः ॥ ६ ॥ 

आन्वीक्षिक्यात्मविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।

अर्थानर्थी तु वार्तायां दण्डनीत्यां नयेतरौ ॥ ७ ॥

मानवाः मनोः शिष्याः । त्रय्या एव विभागोऽयमिति । यथावस्थितपदार्थ- तत्त्वान्वीक्षणरूपत्वादान्वीक्षिकी हेतुविद्या । सा चै द्विविधा त्रय्यनुगामिनी त्र- य्यन्तर्भूता च । तत्र पूर्वा साङ्ख्यादिशास्त्रम् । द्वितीया मीमांसादिशास्त्रम् । तदु- भयमपि पूर्वोत्तरपक्षक्रमेण तत्त्वव्यवस्थापकत्रयीविशेषत्वान्न विद्यान्तरम् || ३ || लोकस्यार्थप्रधानत्वादिति । लोको हि धर्मकामलिप्सुरर्थे प्रयतते, तन्मूलत्वात् तयोः । तत्र चार्थे द्वे एव विद्ये व्याप्रियेते । सुरपुरोधसः बृहस्पतेः ॥ ४ ॥ औशनसाः शुक्रशिष्याः । तस्यामिति दण्डनीत्यां सर्वविद्यानामारम्भाः व्यापाराः रथनाभिवत् प्रतिष्ठिताः ॥ ५ ॥ गुरुदर्शनमिति। शास्त्रकारस्य कौटिल्यो गुरुः । पृथक् पृथक् प्रसिद्ध्यर्थमिति । यथोपवर्णितपूर्वाचार्य मतसम्भवेऽपि परस्परविसदृशफलसिद्ध्यर्थं चतसृष्वेव लोको व्यवस्थितः ॥ ६॥ तदेव फलवैसादृश्यं दर्शयति - 'आन्वीक्षिक्यात्मविज्ञानमित्यादिना । २. 'सी स्थितिः' । क. पाठः. ३. 'नयानयौ' इति 'च द्विधा' ग घ पाठः. ६. 'तपक्षक्रमेण त्र' ८. 'सृषु लो' ग घ पाठः. १. 'तिरिति वि' ख-ग. पाठः. कोशेष पाठः. ४. 'शेषोऽय' च पाठः ५. क-ख. पाठः. ७. 'त्वाद् अवि'ग-घ. पाठः.