पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ द्वितीयः सर्गः । द्वितीयः

  • ३ विद्याविभागप्रकरणम् *

आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः । तद्विद्यैस्तत्क्रियोपेतैश्चिन्तयेद् विनयान्वितः ॥ १ ॥ आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्याश्वतत्र एवैता लोकसंस्थितिहेतवः ॥ २ ॥

एवं विनीतो राजा स्वपरमण्डलंगतकार्याण्यनुतिष्ठेत् । तत्राप्रतिष्ठितैराज्यस्य परराज्यात्मसात्करणासम्भवात् स्वराज्यप्रतिष्ठापनार्थं षड्भिः सर्गैरुपायः प्रदर्श्यते । तत्रास्मिन् सर्गे प्रकरणत्रयं विद्याविभागो वर्णाश्रमव्यवस्था दण्डमाहात्म्यं च । तत्रायं प्रथम उपायः यद् विद्यावृद्धैः सार्द्ध विद्याचिन्ता, विद्याप्रतिबद्धत्वाल्लोकस्थितेः । तस्माद् विद्यावृद्धसंयोगानन्तरं विद्याविभाग उच्यत इति प्रकरणक्रमः । तमेवाद्य श्लोकेन दर्शयति – आन्वीक्षिकीमित्यादि । तद्विद्यैस्तत्क्रियोपेतैर्वक्तृभिः प्रयोक्तृभिश्च चिन्तयेद्, यथैता लोके सम्यक् प्रवर्त्तन्ते ॥ १ ॥ - विभागश्च विद्यानां सङ्ख्याफलप्रधानगुणभावस्वरूपनिर्वचनैः । तत्र सङ्खयया विभज्यन्ते -- विद्याश्चतस्र एवैता इति । पुनरासामुपादानं क्रमख्यापना- र्थम् । तत्र सर्वविद्याविचारहेतुत्वात् प्रधानतमान्वीक्षिकी । ततो धर्मस्य प्रधानत्वात् तद्व्यवस्थापनार्थं त्रयी । व्यवस्थापितधर्मस्य लोकस्य जीवनहेतुर्वार्त्ता । तासु प्रवर्त्तमानासु तद्विघ्ननिवारणार्थं दण्डनीतिः । सा च शाश्वती नित्यस्थितिका, तस्याः प्रवर्त्तमानाया विघ्नेनानुच्छेदात् । इतरा अशाश्वत्य इत्यर्थोक्तम् । लोकसंस्थितये योगक्षेमहेतवे स्वेन स्वेन व्यापारेण । तत्र धर्मार्थयोर्द्वयोः कर्मणां प्रवर्त्तनाय त्रयीवार्त्ते । प्रवृत्तानां निष्पन्नानां च रक्षणाय दण्डनीतिः । आन्वीक्षिकी पुनः सर्ववि- द्यातत्त्वप्रकाशेन व्याप्रियमाणात्यन्तोपयोगिनी । यथोक्तं “प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां शश्वदान्वीक्षिकी मता" (कौटि. अर्थ. १-१-१) इति । तस्माच्चतस्रो विद्या यथाक्रमं व्यवस्थिताः ॥ २॥ १. 'लका' क ख. पाठः. २. ' ते स्वराज्ये प' च. पाठः. ३. 'शिक्षा, वि' च पाठः. *. 'माय स्वे' च. पाठः.