पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] द्वितीयं प्रकरणम् । २६ अविनयरतमादरादृते वशमवंशं हि नयन्ति विद्विषः ।

श्रुतविनयनिधिं समाश्रित-

स्तनुरपि नैति पराभवं कचित् ॥ ७१ ॥ (इति विद्याविनयसंयोगो नाम द्वितीयं प्रकरणम् ) इति कामन्दकी नीतिसारे इन्द्रियजय विद्या विनय संयोगौ नाम प्रथमः सर्गः ।

सम्बन्धः । विनयोपसंहितः गुरुसेवनान् विनयान्वितः । नृपतिपदाय प्रकृष्टैहिक- राज्यफलाय ! शमाय च परलोकहेतवे । क्षमो भवति ॥ ७० ॥ अविनयरतमिति । वृद्धयोगेऽप्यविनतंयासक्तं तस्याद्रव्यत्वात्, तथाचोक्तं " क्रिया हि द्रव्यं विनयति नाद्रव्यमि " (कौटि. अर्थ. १-९-२)ति आदरादृते विना प्रयासं वशं नयन्ति । श्रुतविनयनिधिं श्रुतविनयावात्मन्याधाय तावेव निधि समाश्रित इति द्रव्यत्वं दर्शयति । तनुरपि अल्पपरिवारोऽपीति ॥७१॥ (इति विद्याविनयसंयोगो नाम द्वितीयं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकायां जयमङ्गलायाम् इन्द्रियजयविद्याविनयसंयोगौ नाम प्रथमः सर्गः । १. ' श्रुतविनययोरात्मन्याधातव्ययोरुपायः समा' घ. पाठः.