पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२४ कामन्दकीय नीतिसारे [प्रथमः परां विनीतः समुपैति सेव्यतां महीपतीनां विनयो विभूषणम् । प्रवृत्तदानो मृदुसञ्चरत्करः करीव भद्रो विनयेन शोभते ॥ ६८ ॥ गुरुस्तु विद्याधिगमाय सेव्यते श्रुता च विद्या मतये महात्मनाम् ।

श्रुतानुवत्तीनि मतानि वेधसा-

मसशयं साधु भवन्ति भूतये ॥ ६९ ॥

सुनिपुणमुपसेव्य सद्गुरुं शुचिरनुवृत्तिपरो विभूतये ।
भवति हि विनयोपसंहितो नृपतिपेदाय शमाय च क्षमः ॥ ७० ॥

- विनयस्य प्रयोजनान्तरमाह परामित्यादि । विभूषणम् अकृत्रिमम् । कथं तेन भूष्यत इत्यत्राह — प्रवृत्तदान इति । धान्यपशुहिरण्यैर्यथाकालं प्रजा- नुग्रहकारणात् प्रवृत्तदानः । यदुचितमादीयते प्रजाभ्यः, तदस्य मात्रया प्रजासु सञ्चरतीति मृदुसञ्चरत्करः । तदुभयं विनयाद् भवतीति । भद्रोऽपि हि हस्ती मृदुसञ्चरत्करः, स हि न दुष्टहस्तिवत् क्षुद्रोपद्रवाय करं व्यापारयतीति ॥ ६८ ॥ वृद्धसंयोगमधिकृत्याह —–गुरुस्त्विति । श्रुता च विद्या परिज्ञानायेत्यैर्थतः श्रुतमविनाशि वर्द्धते अर्थावगमस्य तदधीनसिद्धित्वात् । श्रुतानुवर्तीनि शास्त्राहितपरिज्ञानपूर्वकारीणि । वेधसां विदुषाम् । असंशयं भूतये भवन्ति । अनधीतशास्त्राणां तु कार्यसिद्धये यानि मतान्युत्पद्यन्ते तानि घुर्णाक्षरकल्पत्वान्नावश्यम्भावीनि ॥ ६९ ॥ कीदृशं कथं च गुरुं सेवेतेत्याह - सुनिपुणमिति । विद्याप्रवीणम् । सद्गुरुमुपधाशुद्धम् । शुचिर्विनीतात्मा । अनुवृत्तिः परिचर्या । विभूतये उपसेव्येति १. 'हि भू' ग. पाठः २. 'रुर्हि वि' ग. पाठः ३. 'बन्धानि' ख-ग. पाठः ४. 'वृद्धये' क-ख. पाठः. ५. ‘बृंहि’ क-ख. पाठः ६. 'फलाय' ग. पाठः. ७. 'र्थः अन्यत' ग-घ. पाठः. ८. 'णक्षताक्ष' ग घ पाठः. ९. 'फलाय' ग घ पाठः,