पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] द्वितीयं प्रकरणम् । जितेन्द्रियस्य नृपतेर्नीतिमार्गानुसारिणः । भवन्ति ज्वलिता लक्ष्म्यः कीर्त्तयश्च नभःस्पृशः ॥ ६५ ॥

  • इति स्म राजा विनयं नयान्वितो

निषेवमाणो नरदेवसेवितम् । पदं समाक्रामति भास्वरं श्रियः

शिरो महारत्नगिरेरिवोन्नतम् ॥ ६६ ॥
इयं हि लोकव्यतिरेकवर्त्तिनी

स्वभावतः पार्थिवता समुद्धता । बलात् तदेनां विनयेन योजये- न्नयस्य वृद्धौ विनयः पुरस्सरः ॥ ६७ ॥ यदाह - जितेन्द्रियस्येत्यादि । अजितेन्द्रियस्य हि विद्यावृद्धसंयोगेन विद्यानुसरणासम्भवाद् जितेन्द्रियग्रहणम् । विद्येति वक्तव्ये नीतिग्रहणं राजविद्या- प्राधान्यार्थम् । नीतिश्चाप्रयुज्यमाना न फलदेति मार्गग्रहणम् । नीतिप्रयोगानुसारिण इत्यर्थः । ज्वलिताः स्फीताः । नभःस्पृशः गगनोदरव्यापिन्यः ॥ ६५ ॥ इदानीं सर्गान्ते प्रकरणद्वयोक्तमेवार्थमुपसंहरति । तत्रेन्द्रियजयमधिक- त्याह — इतीत्यादि । एवमुक्तेन विधिना विनयं निषेवमाण इति सम्बन्धः । स्मशब्दो निपातः पादपूरणार्थः । नयान्वितः नीतिमनुस्मरन् । नरदेवसेवितं पूर्वै- राजभिरध्यासितम्, इतरत् शक्रादिभिः । पदं श्रियः । राज्यमित्यर्थः । भास्वरं भासनशलिम् । रत्नगिरिः सुमेरुः । तच्छिरसा चोपमानं स्वर्गतुल्यं राज्यमिति दर्शनार्थम् ॥ ६६ ॥ विनयपूर्वकेण नयेन राजा राज्यमाप्नोतीति कुत एतदिति चेत् स्वभावतो नृपस्य समुद्धतत्वान्नयासिद्धेः । यदाह - इयं हीत्यादि । लोकव्यतिरेकवर्तिनी लोकबाह्या । सा ह्यसाधारणभोगसंस्पर्शात् स्वभावत एव समुद्धता भवति । तदेनां तस्मात् पार्थिवताम् । विनयः पुरस्सरः विनीतो हि शास्त्रमृच्छति, तन्निष्ठस्य हि शास्त्रार्थाः प्रसीदन्ति ॥ ६७ ॥

  • पद्यमिद 'परां विनीत' इत्यादिपद्यानन्तरं क-ख. पुस्तकयोर्द्दश्यते.