पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२२ कामन्दकीय नीतिसारे [प्रथमः

  • २ विद्यावृद्धसंयोगप्रकरणम् *

वर्द्धयन्निह धर्मार्थी सेवितौ सद्भिरादराद ।

निगृहीतेन्द्रियः साधु कुर्वीत गुरुसेवनम् ॥ ६१ ॥
शास्त्राय गुरुसंयोगः शास्त्रं विनयवृद्धये ।
विद्याविनीतो नृपतिर्न कृछ्रेष्ववसीदति ॥ ६२ ॥
वृद्धोपसेवी नृपतिः सतां भवति सम्मतः ।
प्रेर्यमाणोऽप्यसद्वृत्तैर्नाकार्येषु प्रवर्तते ॥ ६३ ॥
आददानः प्रतिदिनं कलाः सम्यङ् महीपतिः ।
शुक्लपक्षे प्रविचरन् शशाङ्क इव वर्द्धते ॥ ६४ ॥

विजितेन्द्रियस्य शास्त्राधिगमयोग्यत्वात् तदधिगमाय विद्यावृद्धसंयोग उच्यते । यदाह --- वर्धयन्नित्यादि । धर्मार्थी सेवितौ सद्भिरादरात्, तयोः प्राधान्यात् । कुर्वीत गुरुसेवनं शास्त्राधिगत्यर्थमवग्रहार्थं च ॥ ६१ ॥ तद् दर्शयति श्लोकद्वयेन --- शास्त्रायेत्यादि । शास्त्रं विनयवृद्धये सम्य- करणीयवर्जनीयविधानात् । ततश्च विद्याविनीतो नापत्स्ववसीदति स्थैर्यप्रतिपत्त्य - सम्मोहादियोगात् ॥ ६२ ॥ सम्मतः अभिगमनीयः । असद्वृत्तैः अनर्थजननैः । नाकार्येषु प्रवर्तते वृद्धोपसेवी, विद्यावृद्धैस्ततो निवर्त्यमानत्वात् ॥ ६३ ॥ शिष्याचार्यसम्बन्धलक्षणं विद्यावृद्धसंयोगं दर्शयन्नाह - आददान इत्यादि । गुरुभ्य आददान इत्यर्थः । प्रतिदिनमिति नित्याभियोगं दर्शयति । कलाः ज्योत्स्रनाः, ज्ञानविद्याः कर्मविद्याश्च । शुक्लपक्षे प्रविचरन् धर्मविजयीत्यर्थः । वर्धते शशाङ्कइव शशाङ्को वपुषा, राजा लक्ष्म्या कीर्त्या च ॥ ६४ ॥ १. 'प्रधानत्वात् ' घ. पाठः. २. 'ना: विद्याश्व' ग-घ. पाठः. गन्ध पाठः. ३. 'मृगाको '