पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ १९ सर्गः] प्रथम प्रकरणम् । मुनेरपि मनोऽवश्यं सरागं कुरुतेऽङ्गना । प्रसन्नं कान्तिजननं सन्ध्येव शशिमण्डलम् ॥ ५४ ॥

मनः प्रह्लादयन्तीभिर्मन्दं यान्तीभिरप्यलम् ।
महान्तोऽपि हि भिद्यन्ते स्त्रीभिरद्भिरिवाचलाः ॥ ५५ ॥

मृगयाक्षास्तथा पानं गर्हितानि महीभुजाम् ।

दृष्टास्तेभ्यो ऽपि विपदः पाण्डुनैषधवृष्णिषु ॥ ५६ ॥

मुनेरपि प्रसङ्खयानसमर्थस्यापि । सरागं मनः कुरुते दर्शनेन प्रह्लादयति ॥ ५४ ॥ प्रह्लादयन्तीभिः दर्शनस्पर्शनादिना । मन्दं यान्तीभिः अनुद्युक्तत्वात् । महान्तोऽपि विजितेन्द्रिया अपि । भिद्यन्ते विपद्यन्ते । तस्मात् तासु न सक्तिः कार्या ॥ ५५ ॥ तथा मृगयादिष्वपि, तेभ्यो विपत्तिदर्शनात् । केत्याह --- पाण्डुनैषधवृष्णिष्विति । तत्र पाण्डुः कृतदिग्विजयो मृगयाशीलः सान्तःपुरो वनमध्यतिष्ठत् । एकदा तु मृगयां गतो मृगरूपेण मृगीं गच्छन्तं किन्दमनामानमृषिं शरेण ताडिततवान् । तेन चाप्राप्तरतिसुखेन भूमौ निपतितेन म्रियमाणेन ' त्वमप्येतामवस्थां प्राप्य मरिष्यसीति शप्तस्तदैव स्त्रीनिवृत्तिपरो बभूव । अथैकदा माद्रीमलंकृतां दृष्ट्वा जातानुरागो रहसि स्पृशन् ननाश । नैषधो नलो राजा सह भ्रात्रा पुष्करनाम्नाक्षैर्दीव्यन् सर्वे राज्यमपहारितवान् । तन्निर्वासितश्च भार्याद्वितीयो वनमध्यवर्ती सन् महिष्या समं दुःखमनुभूय भार्यामपि प्राणनिबन्धनादध्वश्रमाद् गन्तुमशक्तां तरुतलविश्रान्तां जातनिद्रां विदर्भराजपुत्रीं दमयन्तीं कर्पटमात्रविभवां तत्याजेत्यतिप्रसिद्धमेतत् । वृष्णयो वृष्णिपुत्राः । ते हि साम्बस्य स्त्रीवेषधारिणो लोहपिण्डमुदरे बध्वा दुर्वाससमुपगम्योपहसन्तः पप्रच्छुः ' इयं भगवन् ! साम्ब - वधूः किं स्विज्जनयिष्यती'ति । स तानाह - 'वंशक्षयकरं घोरमायसं मुसलं महद् । वासुदेवस्य दायादः साम्बोऽयं जनयिष्यति ॥ ' १. 'वः' गन्घ. पाठः.