पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे प्रथमः कामः क्रोधस्तथा लोभो हर्षो मानो मदस्तथा ।

षड्वर्गमुत्सृजेदेनं तस्मिंस्त्यक्ते सुखी नृपः ॥ ५७ ॥ 

दाण्डक्यो नृपतिः कामात् क्रोधान्च जनमेजयः ।

लोभादैस्तु राजर्षिर्वातापिर्हतोऽसुरः ॥ ५८ ॥

[ इति । ततस्ते कृष्णेनोपलब्धवृत्तान्तेनानुज्ञातास्तं साम्बोदरप्रसूतं लोहमुसलं शिलासु निघृष्य तद्रजः समुद्रतटे प्राकिरन् । तंत्र चैरकाः प्रादुरभवन् । वृष्टशेषं च समुद्रे चि- क्षिपुः। स मत्स्यनिर्गाणः कथमपि व्याधहस्तगतो बाणफलतां जगाम । अथ ते पानस - क्ताः कदाचित् समुद्रतटं पिबन्तो मत्ताः सात्यकिकृतवर्मणोर्वाक्कलहाज्जातमन्यवस्ता- भिरेरकाभिर्ब्रह्मदण्डसम्भूतत्वादमोघाभिः परस्परं निजघ्नुः । कृष्णोऽपि तान् दृष्ट्वा चिन्तामापन्नः शिलातलोपाश्रितो व्याधेन पादाङ्गुष्ठचलनात् मृगोऽयमित्यङ्गुष्ठे शरेण ताडितो योगेन शरीरमुत्सृज्य स्वमूर्ति प्राविशत् ॥ ५६ ॥ 1 तस्मादिच्छामात्रवृत्तित्वेऽपि यो यो व्यसनहेतुः स कामः परित्याज्यः । तथा क्रोधादयोऽपि व्यसनहेतवः । ते ह्यान्तराः बाह्येन्द्रियवृत्तिहेतवः शत्रुषड्वर्ग उच्यते । तदेव दर्शयन्नाह काम इत्यादि । क्रोधः अक्षमा, प्रबलेऽपि यो वाक्पारुप्यादिहेतुः । लोभश्च परद्रव्यातिश्रद्धा । हर्षः अतिक्रीडनात् तृप्तिः । मानः अवनतिसाध्येऽप्युन्नतमनस्कता । मदः शौर्यादिनिमित्तो दर्पः । तस्मिंस्त्यक्ते सुखी नृपः, अन्यथा दाण्डक्यादिवन्निधनमुपेयात् ॥ ५७ ॥ तत्र दण्डको नाम भोजवंशमुख्यः । तन्निमित्तप्रसिद्धनामा दाण्डक्यो नाम । स च मृगयां गतस्तृषितो भृग्वाश्रमं प्रविश्य तत्कन्यां रूपयौवनवतीमेकाकिनीं दृष्ट्वा जातरागस्तां स्यन्दनमारोप्य स्वपुरमाजगाम । भृगुरपि समित्कुशादीनादाय वनादागत्य तामपश्यन्नभिध्याय च यथावृत्तं ज्ञात्वा जातक्रोधस्तं शशाप “ सप्तभिरहोभिः पांसुवृक्षा सबन्धुराष्ट्रो विपद्यतामिति । स तथाक्रान्तस्तथैव ननाश । क्रोधाज्जनमेजय इति । तस्याश्वमेधे देवतानामृक्सामयजुराहूतसमागतानां हविर्भुजामिन्द्रः पन्यगारगतां तत्पत्नीमश्वमेधस्पर्शकर्माणि ऊरुमूले क्षणं जातरागो बला- १. 'अ' क. पाठः. २. 'भवेत' क. पाठः. ३. 'तद्रजः चै' क. पाठः..