पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१८ कामन्दकीय नीतिसारे प्रथमः निकामासक्तमनसां कान्तामुखविलोकने । [ गलन्ति गलिताश्रूणां यौवनेन सह श्रियः ॥ ५० ॥ धर्मादर्थोऽर्थतः कामः कामात् सुखफलोदयः । आत्मानं हन्ति तौ हत्वा युक्त्या यो न निषेवते ॥ ५१ ॥

नामापि स्त्रीति संह्लादि विकरोत्येव मानसम् ।
किं पुनर्दर्शनात् तस्या विलासोल्लासितभ्रुवः ॥ ५२ ॥
रहःप्रचारकुशला मृदुगद्गदभाषिणी ।

कंन नारी रमयति रक्तं रक्तान्तलोचना ॥ ५३ ॥ । तात्पर्येण युगपद् विषयसेवायां दोषमाह -- निकाममिति । अवितृप्तानामेव धर्माद्यसाधनत्वान्निष्फला विनश्यन्ति । गलिताश्रूणामित्यनुतापं दर्शयति । यौवनेनेति । उत्तरे वयसि शक्तिरहितानां श्रियः किं करिष्यन्तीति भावः ॥ ५० ॥ तथा धर्मार्थावपि सेवेत, तयोः प्राधान्यात् । यदाह -- धर्मादर्थ इति । जन्मान्तरोपार्जितधर्ममूलत्वात् तदुपबृंहणीयत्वाच्चार्थस्य । अर्थतः कामः, निरर्थस्य विषयोपभोगासम्भवात् । कामात् सुखफलोदयः, यस्तु दाण्डक्यस्यैव दुःखफलोदयः स द्वेष एव, न कामः । एते च युक्त्या सेवितव्याः । अन्यथा परस्परोपघातात् त्रितयमपि न स्यात् । यदाह - 'आत्मानं हन्ति तौ हत्वा युक्त्या यो न निषेवत' इति । तद् यथा -- अतिदानेन धर्मोऽर्थ हत्वा कामं धर्मान्तरं च हन्ति । तपश्चात्यन्तसेवितं कामं हत्वा शरीरक्षयाद् धर्मार्थौ हन्ति । तथार्थस्तादात्विकोऽप्युपादीयमान ऐलस्येव धर्मकामौ हत्वार्थमपि हन्ति । कामः पुनरत्यासेव्यमानः स्त्रीमृगयाद्यूतपानैश्चतुर्भिर्व्यसनैर्धर्मार्थौ हत्वा शरीरक्षयादात्मानमपि हन्ति ॥ ५१ ॥ तत्र स्त्रीव्यसनं दुर्धरं यन्नामापि तावच्छ्रतं विकृतिं जनयति, किमुत दर्शनादयः । यदाह -- नामापीत्यादि । उल्लासिता उक्षिप्ता ॥ ५२ ॥ रहः शयनं तत्र प्रचारकुशलेति स्पर्शनं दर्शयति ॥ ५३ ॥ १. 'किनाम् ' ख-ग. पाठः.