पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ) प्रथम प्रकरणम् । गिरन्द्रिसशाकारो लीलयोन्मूलितद्रुमः ।

करिणीस्पर्शसंलोभादालानं याति वारणः ॥ ४४ ॥ स्निग्धदीपशिखालोकविलोभितविलोचनः । 

मृत्युमृच्छत्यसन्देहात् पतङः सहसा पतन् ॥ ४५ ॥ दूरेऽपि हि भवन दृष्टेरगाधे सलिले चरन् । मीनस्तु सामिषं लोहमास्वादयति मृत्यवे ॥ ४६ ॥

गन्धलुब्धो मधुकरो दानासवपिपासया ।

अभ्येत्य सुखसञ्चारान् गजकर्णझळझळान् ॥ ४७ ॥ एकैकशोऽपि निम्नन्ति विषया विषसन्निभाः ।

क्षेमी तु स कथन्नु स्याद् यः समं पञ्च सेवते ॥ ४८ ॥
सेवेत विषयान् काले मुक्ता तत्परतां वशी ।

सुखं हि फलमर्थस्य तन्निरोधे वृथा श्रियः ॥ ४९ ॥ गिरीन्द्र इत्यादि । लीलया अप्रयासेन । आलानं बन्धनम् ॥ ४४ ॥ स्निग्धेत्यादि । विलोभितं प्रसक्तीकृतम् ॥ ४५ ॥ दूरेऽपि हि भवन् दृष्टेरिति । जनस्य दृष्टिगोचरमतीत्य तिष्ठन्नपीत्यर्थः ॥ ४६ ॥ अमुखसञ्चारान् अतिप्रयत्नसञ्चारान् अतिप्रयत्नसञ्चरणीयान्, यत्र सञ्चरन् नियतं विनश्यति । झळझळान् आस्फालनानि ॥ ४७ ॥ विषसन्निभाः आपातमात्रमधुराः पश्चाद्विनाशनाः । क्षेमी सुखी । समं युगपत् ॥ ४८ ॥ योषिदाधारेऽस्यापवादमाह - सेवेतेति । काल इति । दिनमष्टधा रात्रिं च विभज्य, आत्मबलानुकूल्येन वा कल्पिते भाग इत्यर्थः । तत्रापि मुक्वा तत्परताम् अत्यासक्तिम् । वशी जितेन्द्रियः । तन्निरोधे सुखनिरोधे ॥ ४९ ॥ १. 'संमोहादा' क. पाठः.