________________
१६ कामन्दकीय नीतिसारे प्रथमः एकस्यापि न यः शक्तो मनसः सन्निबर्हणे ।
महीं सागरपर्यन्तां कथन्नु स विजेष्यते ॥ ३९ ॥ क्रियावसानविरसैर्विषयैरपहारिभिः ।
गच्छत्याक्षिप्तहृदयः करीव नृपतिर्ग्रहम् ॥ ४० ॥ सज्जमानो कार्येषु विषयान्धीकृतेक्षणः । आवहत्युग्रभयदां स्वयमेवापदं नृपः ॥ ४१ ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
एकैकमेषां भवति विनाशप्रतिपत्तये ॥ ४२ ॥
शुचिः शष्पाङ्कुराहारो विदूरेक्रमणक्षमः ।
लुब्धकाद् गतिलोभेन मृगो मृगयते वधम् ॥ ४३ ॥ [ दण्डनीतिविदित्यर्थः,दण्डनीत्यां हि नयापनययोर्मानुषकर्मणोर्विचार्यमाणत्वात् । तत्र योगक्षमयोर्यत्र निष्पत्तिः स नयः, विपत्तिरपनयः । हितं यल्लोकद्वयाविरुद्धम् ॥ ३८ ॥ इन्द्रियजयस्यानुष्ठानार्थं स्वरूपमुक्तम् । इदानीं तदनुष्ठानदार्ढ्यर्थमजये दोषाख्यानम् एकस्येत्यादिग्रन्थेन । सन्निबर्हणे नियमने । सागरपर्यन्तामिति चक्रवर्त्तिक्षेत्रं दर्शयति । यथोक्तं- “तस्यां हिमवत्समुद्रान्तरमुदीचीनं नवयोजनसहस्रप्रमाणं तिर्यक् चक्रवर्त्तिक्षेत्रमिति । कथं विजेष्यते ॥ ३९ ॥ अनियमिते हि मनसि विषयेप्यासङ्गाद् न केवलं न जयति, प्रत्युत शत्रूणामेव वशं गच्छति, स्वयं वापदमात्मनो जनयति । यदाह श्लोकद्वयेन -क्रियेत्यादि । क्रियावसानविरसैः भुक्तविरसैरित्यर्थः । अपहारिभिः आपाते । ग्रहं वशम् ॥ ४० ॥ सज्जमानः सक्ति गच्छन् विषयान्धीकृतत्वात् । अकार्येषु अगम्यागमनादिषु । उग्रभयदाम् उच्छेदकारिणीम् ॥ ४१ ॥ यथा विषयाः प्रत्येकमन्धीकुर्वन्तो विनाशाय तथा दृष्टान्तेन प्रतिपादयितुमाह-- शब्द इत्यादि । विनाशप्रतिपत्तये विनाशकरणाय ॥ ४२ ॥ शुचीत्यादि । लुब्धकाद् व्याधात् । शष्पं कोमलतृणम् । मृगयते प्रार्थयते ॥ ४३ ॥ १. 'रा' ख. पाठ:. २. 'दोषेण' ख.ग. पाठः.