पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] प्रथम प्रकरणम् ।१५. आत्मा बुद्धीन्द्रियाण्यर्था बहिष्करणमुच्यते । सङ्कल्पाध्यवसायाभ्यां सिद्धिरस्य प्रकीर्त्तिता ॥ ३६ ॥

उभे एते हि करणे " प्रयत्नानन्तरीयके ।
तस्मात् प्रयत्नसंरोधाद् भावयेन्निर्मनस्कताम् ॥ ३७ ॥
एवं करणसामर्थ्यात् संयम्यात्मानमात्मना । 

नयापनयविद्राजा कुर्वीत हितमात्मनः ॥ ३८ ॥

आत्मा बुद्धीन्द्रियाण्य इति । आत्मा द्विविधः, अन्तरात्मा बहिरात्मा चेति । तत्राद्यो धर्मादिगुणाश्रयो नित्यः । स च प्राङ् निर्दिष्टः । इतरो देह एव महाभूतात्मको विनाशी । तस्याप्यन्तरात्माश्रयत्वात् कर्तृत्वम् । बुद्धीन्द्रियाणि श्रोत्रादीनि । तेषां साधकतमत्वं तैरात्मनो विषयोपलब्धेः । अर्थाः शब्दादयः । एतत्. त्रितयं कर्तृकरणकर्मभावेन विषयोपलब्धि करोतीति करणं पूर्ववद्, बहिर्व्याप्रियमाणत्वाद् बहिष्करणम् । सिद्धिरस्येति । आन्तरस्य बाह्यस्य च करणस्य । तत्राद्यस्य सङ्कल्पात् सव्यापारत्वमनुमीयते द्वितीयस्याध्यवसायाद् विषयोपलब्धेरित्यर्थः ॥ ३६ ॥ उभे इत्यादि । येनानन्तर्य के इति । येनानन्तरभवे । दिगादित्वाद् यत् । यदा आत्मनः प्रयत्नगुण उत्पद्यते तदानयोः सव्यापारत्वम् । तथाहि - आत्मा प्रयत्नेन मनसा संयुज्य सङ्कल्पेन मनः प्रेरयति, मनश्चेन्द्रियं तच्चार्थेन युज्यत इति । 'तस्मात् प्रयत्नसंरोधाद् भावयेन्निर्मनस्कतां ' यथा मनसो बाह्याभ्य-न्तरप्रवृत्तिर्न भवति । प्रयत्नसंरोधश्चात्मावलम्बनज्ञानात् । तद्धि योगाभ्यासात् प्रयन्नान् संरुणद्धि ॥ ३७ ॥ एवमिति । सांव्यवहारिकेण तात्त्विकेन चेन्द्रियजयेन संयम्येति सम्बन्धः । करणसामर्थ्यात् मनस इन्द्रियस्य च सामर्थ्यात् । आत्मानम् आन्तरम् । प्रवर्त्तमा- नमिति शेषः । आत्मना स्वयम् । नयापनयविद्राजेति विनयफलं दर्शयति । १. 'प्रयत्नानन्तरीयके' क-ख. पाठः.

  • 'यत्नानन्तर्यके' इति व्याख्यासम्मतः पाठः, तथा च 'यत्नानन्तर्यके स्मृते' इति कलि- कातामुद्रितमूलपाठः.