पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [प्रथमः श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी ।

पायूपस्थं हस्तपादं वाक् चेतीन्द्रियसङ्ग्रहः ॥ ३३ ॥ 

शब्दः स्पशश्च रूपं च रसो गन्ध पञ्चमः । उत्सर्गानन्दनादानगत्यालापाश्च तत्क्रियाः ॥ ३४ ॥

आत्मा मनश्च तद्विद्यैरन्तःकरणमुच्यते ।

ताभ्यां तु सप्रयत्नाभ्यां सङ्कल्प उपजायते ॥ ३५ ॥

न्द्रियसन्निकर्षे ज्ञानमुत्पद्येत, न चोत्पद्यते । तस्मादस्ति तदन्यत् । युगपग्रहणमेक- त्वात्वसाधनार्थम् । यद्यनेकमेकस्मिन् शरीरे मनः स्यात् तदानेकसन्निधानाद् युगपत् सर्वज्ञानानि स्युः, व्यापित्वे च सर्वेन्द्रियैर्युगपन्मनस्संयोगे सर्वाणीन्द्रियज्ञानानि भवेयुः, नच भवन्ति । तस्मात् तद् एकम् अणु च प्रत्येतव्यम् । नानार्थेषु च सङ्कल्प इति । इदमेवं करिष्यामीति नानार्थेष्वात्मनो मनसा सङ्कल्प आत्मनः कर्मेत्युच्यते ॥ ३२ ॥ - कतिविधमिन्द्रियं जेयमित्याह श्रोत्रमित्यादि । श्रोत्रादीनि पञ्च बुद्धीन्द्रियाणि । पाय्वादीनि पञ्च कर्मेन्द्रियाणि ॥ ३३ ॥ तत्र पूर्वेषां शब्दादयः पञ्च विषयाः । शेषाणामुत्सर्गादयः कर्माणि । उत्सर्ग उपयुक्तस्याहारस्य । आनन्दनं शुक्लविसृष्टिप्रभावितम् । आदानं ग्रहणम् । गतिर्वि- हरणम् । आलापो भाषणम् । तत्क्रियाः पाय्वादीनां कर्माणीत्यर्थः ॥ ३४ ॥ सांव्यवहारिकमिन्द्रियजयमुक्त्वा पारमार्थिकं दर्शयितुमाह - आत्मा मनश्चेत्यादि । आत्मा कर्त्ता । मनः साधकतमम् । तदुभयं कर्तृकरणभावेन विषयोपलब्धि करोतीति । करणमिति " कृत्यल्युटो बहुलम् " ( ३-३-११३) इति प्रत्ययविधानात् । तद् अन्तर्व्याप्रियमाणत्वाद् अन्तःकरणम् । सप्रयत्नाभ्यामिति । यदा आत्मनः प्रयत्नगुण उत्पद्यते, तदायं मनसा सम्प्रयुक्तः सङ्कल्पते । ततस्तदिच्छानुविधानान्मनः प्रेरयतीन्द्रियम् ॥ ३९ ॥ १. 'एताभ्यां सम्प्रयुक्ताभ्याम् ' क. पाठः.