पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] प्रथमं प्रकरणम् ।१३ विज्ञानं हृदयं चित्तं मनोबुद्धिश्च तत्समम् ।

अनेनात्मा करोतीह प्रवर्तननिवर्तने ॥ ३० ॥
धर्माधर्मौ सुखं दुःखमिच्छाद्वेषौ तथैव च । 

प्रयत्नज्ञानसंस्कारा आत्मलिङ्गमुदाहृतम् ॥ ३१ ॥ ज्ञानस्यायुगपद्भावो मनसो लिङ्गमुच्यते ।

नानार्थेषु च सङ्कल्पः कर्म चास्य प्रकीर्त्यते ॥ ३२ ॥

ननुचात्ममनःसंयोगात् प्रतिबुद्धा प्रतिबुद्धत्वेन मनोबुद्धिरुत्पद्यते । सा च ज्ञानमेव । विज्ञानं तु पुनरिन्द्रियार्थसन्निकर्षजमिति । नैतदस्ति, मनोबुद्धेरपि (वि) ज्ञानत्वात् । यदाह - विज्ञानमित्यादि । तत्समं, ज्ञानादनर्थान्तरम् । विशेषस्त्व- यं - द्वयसंयोगाच्चतुष्टयसंयोगाद् वा तद् भवति । अनेनेति । मनोबुद्ध्यात्मकेन सङ्क- ल्परूपेण ज्ञानेन । इहेति विषयेषु । प्रवर्तननिवर्त्तने मनस इति शेषः । यदात्म- नोऽप्रतिबुद्धज्ञानमुत्पद्यते, तदायं सापायेष्वपि विषयेषु मनः प्रवर्त्तयति, प्रतिबुद्धं चैतेभ्यो निवर्त्तयति ॥ ३०॥ आत्मनोऽस्तित्वे लिङ्गमाह -धर्माधर्मावित्यादि । तत्र धर्माधर्मयोः सुखदुःखे लक्षणे । सुखोत्पादनाद् धर्मो लक्ष्यते, दुःखोत्पादना चाधर्मः । सुखदुःखे अनुग्रहोपघातलक्षणे । इच्छा रागोऽभिलाषस्तृष्णेत्यनर्थान्तरम् । द्वेषः क्रोधः, यस्मिन्नुत्पन्ने ज्वलितमिवात्मानमभिमन्यते । प्रयत्नः समारम्भ इच्छापूर्वको द्वेषपूर्वकश्च । ज्ञानं, येनात्मा बुध्यते । तद् द्व्यसन्निकर्षाच्चतुष्टयसन्निकर्षाच्च भवति । संस्कारो ज्ञानजो ज्ञानहेतुश्च । अनुभवज्ञानेन ह्यात्मनि संस्कार उत्पद्यते, तस्मात् कालान्तरेण स्मार्त्तं ज्ञानमुत्पद्यत इति ज्ञानजो ज्ञानस्य च हेतुः । एते च धर्मादयो गुणत्वाद् रूपादिवदाश्रिताः । योऽसावाश्रयः स आत्मेति आत्मनो लिङ्गम् । यथा शेषाणि द्रव्याणि नाश्रयः, तथा शास्त्रान्तरे प्रतिपादितम् । ग्रन्थगौरवभयात् तु नोक्तमस्माभिः ॥ ३१ ॥ ज्ञानस्यायुगपद्भाव इति । यद्यात्मव्यतिरिक्तं मनो न स्यात्, तदा आत्मे- १. 'स्ख' ग घ. पाठ:.