पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२ कामन्दकीयनीतिसारे प्रथमः आत्मा प्रयत्नादर्थेभ्यो मनः समधितिष्ठति । संयोगादात्ममनसोः प्रवृत्तिरुपजायते ॥ २८ ॥

विषयामिषलोभेन मनः प्रेरयतीन्द्रियम् ।

तन्निरुन्ध्यात् प्रयत्नेन जिते तस्मिन् जितेन्द्रियः ॥ २९ ॥ व्यक्तिभेदेनातिबहुलत्वाद् विस्तीर्ण विषयारण्यं तत्र धावन्तम् इन्द्रियदन्तिनमिति सम्बन्धः । विप्रमाथिनं निरङ्कुशत्वादुपघातकम् । ज्ञानाङ्कुशेनेति । आत्मा मनश्च द्रव्यपदार्थौ । तथाहि “पृथिव्यापस्तेजो वायुराकाशः कालो दिगात्मा मनश्चेति नव द्रव्याणी”ति । तत्रात्मसमवायिनौ ज्ञानप्रयत्तौ गुणपदार्थों । तत्र ज्ञानं द्विविधम् । आत्मालम्बनं बाह्यालम्बनं च । तत्राद्यस्योत्तरत्रोपयोगं वक्ष्यामः । द्वितीयं द्विविधं प्रतिबुद्धमप्रतिबुद्धं चेति । तत्र कार्याकार्यविवेकादुत्पद्यमानं मनोनियमनसमर्थं प्र तिबुद्धम्, अन्यदप्रतिबुद्धम् । तदुभयमात्ममनस्संयोगे सति भवति । संयोगश्च प्रयत्नगुणात्, प्रयत्नश्च समारम्भः । इदमुक्तं भवति -- आत्मनो यदा प्रयत्नगुण उत्पद्यते, तदात्मा मनसा युज्यते । तत्र यदा मन आत्मसम्प्रयुक्तमप्रतिबुद्धज्ञानवशात् प्रवर्त्तते, तदा विषयेष्विन्द्रियविप्रतिपत्तिमापादयद् आत्मन उपघाताय भवति । तस्मात् प्रतिबुद्धज्ञानेनाङ्कुशस्थानीयेन मनोनियमनपूर्वकमिन्द्रियदन्तिनमस्वतन्त्रं कुर्याद्, यथा विषयेषु न विप्रतिपद्यत इति ॥ २७॥ अस्य श्लोकस्य भाष्यम् आत्मेत्यादिग्रन्थः । मनः समधिष्ठतीति । प्रयत्नेन हेतुना मनसा संयुज्यत इत्यर्थः । अर्थेभ्य इति । विषयार्थम् । प्रवृत्तिरुपजायत इति । आत्ममनस्संयोगे सतीन्द्रियसंयोगार्थं मनसो गतिर्भवतीत्यर्थः ॥ २८ ॥ विषयामिषलोभेनेति । यं विषयमुपलब्धुमिच्छत्यात्मा, तदिच्छानुविधानेन विषयसंयोगार्थं मनः प्रेरयतीन्द्रियम् । तत आत्मा विषयमुपभुङ्क्ते । तत्रेन्द्रिया- विप्रतिपत्या विषयोपभोग इष्यत एव । विप्रतिपत्तौ तु तन्मनो निरुन्ध्यात् नियमयेत् प्रतिबुद्धज्ञानेनेत्यर्थः । प्रयत्नेनेति । यत्नमास्थाय निरुन्ध्यादित्यर्थः, तस्या- तिचञ्चलत्वात् । तस्मिन् मनसि जिते जितेन्द्रियः, तदधीनत्वादिन्द्रियविप्रतिपत्तेः ॥ २९ ॥ १. 'हुत्वा' गन्घ. पाठः, २. 'तू स प्र' गन्ध, पाठः,