पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्ग: 1 प्रथम प्रकरणम् । ११ प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।

कुलं शीलं दमश्चेति गुणाः सम्पत्तिहेतवः ॥ २४ ॥ 

आत्मानं प्रथमं राजा विनयेनोपपादयेत् । ततोऽमात्यांस्ततो भृत्यांस्ततः पुत्रांस्ततः प्रजाः ॥ २५ ॥ सदानुरक्तप्रकृतिः प्रजापालनतत्परः । विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥ २६ ॥

प्रकीर्णे विषयारण्ये धावन्तं विप्रमाथिनम् ।

ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनम् ॥ २७ ॥ दृढता । आपत्क्लेश सहिष्णुता आपत्काले शीतोष्णवातवर्षादिक्षमता ॥ २३ ॥ 1 प्रभावः प्रभुशक्तिः । शुचिता उपधापरिशुद्धता | मैत्री मित्रावर्जनात्मिका वृत्तिः । त्यागः पात्रेषु दानशीलता । सत्यं प्रतिज्ञातकारिता । कृतज्ञता उपकाराविस्मरणम् | कुलम् आभिजात्यम् । शीलं सुस्वभावता । दमः क्लेशक्षमिता । एते गुणा जनानुरागमादधानाः सम्पत्तिहेतवः । अत्र स्वामिसम्पत् सम्पत्तिहेतुरिति वक्तव्ये परिसङ्क्षयतगुणादानं प्राधान्यादत्रादरार्थम् । यथा शास्त्रनिश्चयहेतुत्वाद् विनयमूलो नयः, तथा प्रज्ञादिगुणा अपि प्रकृप्यमाणत्वात् तन्मूलैम् । यथाहु:-

“जितेन्द्रियत्वं विनयस्य लक्षणं गुणप्रकर्षो विनयादवाप्यते ।

गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥"

इति । यस्माद् विनयमूलमेतत् तस्मादात्मात्मीययोर्विनये यतेत ॥ २४ ॥

तत्र स्वयमविनीतो नात्मीयान् विनेतुमीश इत्याह -- आत्मानं प्रथममित्यादि । ततोऽमात्यान् अनन्तरं प्रकृतीः, ततो भृत्यान् दण्डप्रकृतीः, तदुपबृंहितस्ततः पुत्रान् स्वामिप्रकृतिविशेषान् कर्कटकसधर्मणः, ततः प्रजाः बाह्याः ॥ २५ ॥ एवञ्च सर्वपुरुषप्रकृतिविनयेऽस्य प्रभूततरा वृद्धिर्भवति । यदाहः- -सदा- नुरक्तप्रकृतिरित्यादि । इदमुक्तं भवति -- स्वयं विनीतोऽमात्यदण्डपुत्र प्रकृतीरान्तरीः प्रजाश्च बाह्याः विनीयानुरज्य संरक्ष्य चाधिकां श्रियमवाप्नोति ॥ २६ ॥ विनय इन्द्रियजय इत्युक्तम् । तत् कथं कुर्यादित्याह - प्रकीर्ण इत्यादि । १. ‘ङ्खथा यस्माद् विनयमूलमेतत् तद् गुणोपादा' क ख घ. पाठः २. 'लाः' क-ख. पाठः. + तद् इन्द्रियजयलक्षणं वस्तु.