पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे प्रथमः विनयो हीन्द्रियजयस्तद्युक्तः शास्त्रमृच्छति । तन्निष्ठस्य हि शास्त्रार्थाः प्रसीदन्ति ततः श्रियः ॥ २२ ॥

शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता । 

उत्साहो वाग्मिता दार्ढ्यमापत्क्लेशसहिष्णुता ॥ २३ ॥ विक्रमस्यैकान्ततया फलसाधनत्वात् । नयस्य च विनयो मूलं, तस्य शास्त्रनिश्चय- हेतुकत्वात् । यदाह - विनयः शास्त्रनिश्चय इति । विनीतो हि शास्त्रं निश्चित्य नयं प्रयुङ्क्ते, नयश्च शास्त्रेणोपदिश्यत इति विनयो नयस्य मूलं भवति ॥ २१ ॥ तदेव योजयति - विनयो हीत्यादिना । श्रोत्रादीनां स्वेषु स्वेषु विषये- ष्वविप्रतिपत्तिरिन्द्रियजयः । स च विनय उच्यते । तद्युक्तः शास्त्रमृच्छति । विन- ययुक्तस्याध्ययनेन शास्त्रनिश्चय इति । संयोग इति यावत् । तन्निष्ठस्य हि शास्त्रप्र- वणस्य शास्त्रार्थाः प्रसीदन्ति चिन्ताभावनाक्रमेण निर्मलीभवन्ति । ततः श्रिय इति । तत उत्तरकालं निश्चितशास्त्रतत्त्वस्य नयप्रयोगस्य स्वातन्त्र्यात् स्वपरमण्डलाधाराः श्रियः प्रसीदन्ति निष्कण्टका भवन्ति ।। २२ । - यथा शास्त्रं श्रियो हेतु:, तथान्येऽपि गुणा इत्याह- शास्त्रमित्यादि । तत्र शास्त्रज्ञोऽप्यप्रज्ञो दृष्ट इति प्रज्ञाग्रहणम् । सा चाष्टाङ्गा । यथा वक्ष्यति-

" शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥”

इति । धृतिः अनुद्विग्नता । तया कार्येष्वनवसादः । दाक्ष्यम् अनालस्यम् । तच्चो- त्साहगुणान्तर्भावाल्लब्धमेव । यथा वक्ष्यति “दाक्ष्यं शैघ्रयं तथामर्षः शौर्य चोत्सा- हलक्षणमि" (स. ४-लो. २२) ति । तस्य पुनरुपादानं प्राधान्यार्थम् । तथाहि "दक्षः श्रियमधिगच्छतीति वृद्धाः । प्रागल्भ्यं च वचनानुष्ठानयोः परिषद्यसाध्वसत्वम् । धारयिष्णुता अवधारितस्यार्थस्याविस्मरणशीलता । तस्याश्च प्रज्ञागुणान्तर्भावेऽपि पुनर्वचनं प्राधान्यार्थम् । उत्साहः शौर्यादिगुणात्मकः । वाग्मिता सङ्क्षेपविस्तराभ्यां स्पष्टललितपदाभिधायिता । दार्ढ्यं यत् कार्य प्रस्तुतं, तत्र १, 'षु नाव 'ख पाठः. $ फलसम्बन्ध इत्यर्थः.