पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः प्रथमं प्रकरणम् । स्वाम्यमात्यश्च राष्ट्रं च दुर्ग कोशो बलं सुहृत् ।

एतावदुच्यते राज्यं सत्त्वबुद्धिव्यपाश्रयम् ॥ १८ ॥
आलम्ब्य बलवत् सत्त्वं बुद्ध्यालोचितनिर्गमः । 

सप्ताङ्गस्यास्य लाभाय यतेत सततोत्थितः ॥ १९ ॥

न्यायेनार्जनमर्थस्य रक्षणं वर्धनं तथा । 

सत्पात्रप्रतिपत्तिश्च राजवृत्तं चतुर्विधम् ॥ २० ॥ नयविक्रमसम्पन्नः सूत्थानश्चिन्तयेच्श्रियम् ।

नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः ॥ २१ ॥

किं तद् राज्यमित्याह – स्वामीत्यादि । एतावद् राज्यमिति । राज्यं राजत्वं, यद् राजेत्यभिधानप्रत्यययोः प्रवृत्तिनिमित्तम् । तच्च स्वस्वसम्पदुपेतं प्रकृतिसप्तकमेव भवितुमर्हति । सत्त्वबुद्धिव्यपाश्रयमिति । सत्त्वं व्यसनेऽभ्युदये च यदविकारकं, बुद्धिः शुश्रूषादिलक्षणा, तदुभयमाश्रयो राज्यस्य ताभ्यां प्राधान्येन लाभपालनयोगात् ॥ १८॥ कथमाभ्यां लभत इत्याह- - आलम्ब्येत्यादि । बलवद् अत्यर्थम् महद् वा सत्त्वम् । बुद्ध्यालोचितनिर्गमः प्रज्ञया निरूपितनयमार्गः । सततोत्थितः नित्योद्युक्तः, अलसस्याकिञ्चित्करत्वात् ॥ १९ ॥ लब्धराज्यस्य तु स्वराज्यं दण्डेन पालयतः चतुर्विधं वृत्तमित्याह- न्यायेनेत्यादि । न्यायो धान्यषड्भागादिः । आर्जितस्य रक्षणं स्वेभ्यः परेभ्यश्च । वर्द्धनं वाणिज्यादिभिः स्फीतीकरणम् । सत्पात्रप्रतिपत्तिः अश्वमेधादौ गुणवति पुत्रे च विनियोजनम् ॥ २० ॥ एवं लाभपालनोपायं शास्त्रशरीरमुपक्षिप्य विनयमुपदिदिक्षुराह - नय- विक्रम सम्पन्न इत्यादि । दैवं मानुषं च कर्म लोकं यापयति । तत्र दैवस्याचिन्त्य - त्वान्मानुषमेव नयशौर्यादिकमास्थाय स्वमण्डले परमण्डले च श्रियं चिन्तयेत् । तदप्यनुत्थानशीलस्य नापततीति सूत्थानः । तत्र विक्रमान्नयः प्रधानं, तत्पूर्वकस्य १. 'स्व' क. पाठः. २. 'नास्तीति' घ. पाठः.