पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे धर्माद् वैजवनो राजा चिराय बुभुजे महीम् । अधर्माच्चैव नहुषः प्रतिपेदे रसातलम् ॥ १६ ॥ तस्माद् धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः । धर्मेण वर्धते राज्यं तस्य स्वादु फलं श्रियः ॥ १७ ॥ [प्रथमः नधर्मो न्यायः । तद्विपरीतस्त्वन्यायः । त्रिवर्गेण धर्मार्थकामैः । उपसन्धत्ते योजयति बैजवनवत् । अन्यथेति । अन्यायप्रवृत्तो हन्ति नहुषवत् ॥ १५ ॥ - तदेव दर्शयति – धर्मादित्यादिना । इन्द्रसेनो नाम राजा सगरवंशेऽभूत् । स किल देवीमृतुमतीमेवापरिशुद्धामेवाभिगम्याचारभ्रंशगतो भ्रष्टाचारत्वाद् ब्रह्मराक्षसं ददर्श । तेन चोक्तम् " अधुना भक्षणीयोऽसि मे राजन्!, नो चेदधर्मेण- प्रजां योजयसि येन भयं मत्तो न भवेदिति । स च तां भयादधर्मे प्रवर्तयन् न चिरादेवाधर्मेणाभिभूतो विननाश । तत्पुत्रपौत्रादयोऽपि तथैव राक्षसचोदितां पूर्वी स्थितिमनुवर्तमानाश्चिरं जीवितं न लेभिरे । क्रमेण च वैजवनः प्रजामधर्मप्रवृत्तां दृष्ट्वा श्रुत्वा च मन्त्रिभ्यो यथावत् स्थितां तां धर्म एव प्रावर्तयत् । ततोऽसौ राक्षसचोदितोऽप्यनुपजातभयोऽत्यन्तं धर्मपरो बभूव । तदुपबृंहितश्च तमवधूय चिरं पृथिवीं बुभुजे । अधर्मान्नहुष इति । ब्रह्महत्याभयात् सरः प्रविश्य बिसतन्तौ स्थिते शक्रे देवलोकोऽराजक इति देवद्विजैरनुमतो मर्त्यराजो नहुषः शाकं पदमासाद्य दर्पात् पत्नीत्वेन शचीमर्थितवान् । तया च बृहस्पत्युपदिष्टया विहस्येदमुक्त - “यदि भवान् मय्यर्थी तदा यानमपूर्वमारुह्यागच्छत्वि”ति सन्दिष्टः स विमृश्य ब्राह्मणयानेनागच्छन् “सर्प सर्पे त्यभिदधत् पथि महर्षिणागस्त्येन शप्तः “सर्पो भवेत्यजगरीभूतो रसातलमविशत् ।। १६ ।। तस्माद् धर्मे पुरस्कृत्येति । मन्वादिप्रणीतं पालनं धर्मः । अर्थायेति त्रिवगर्थाय स ह्यर्थ्यत इति कृत्वा । धर्मेण वर्द्धते राष्ट्रम् । अन्यथा तद् आर्जितमपि नहुषस्येव न भवेत् । तस्येति प्रवृद्धस्य राष्ट्रस्य फलं श्रियो द्विविधाः ऐहलौकिक्यः पारलौकिक्यश्च । तत्र पूर्वा विशिष्टविषयोपभोगाः, इतराश्चाश्वमेघादिप्रापिताः । तदुभयमपि स्वादु विशुद्धत्वात् ॥ १७ ॥ १. 'न' कख पाठः. २. 'तिं' घ. पाठः. ३. 'दृष्टतया' घ. पाठः.