पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] प्रथमं प्रकरणम् । आयतं रक्षणं राज्ञ' वार्ता रक्षणमाश्रिता । वार्ताच्छेदे हि लोकोऽयं श्वसन्नपि न जीवति ॥ १२॥ पर्जन्य इव भूतानामाधारः पृथिवीपतिः । विकलेऽपि हि पर्जन्ये जीव्यते न तु भुपतौ ॥ १३ ॥ प्रजां संरक्षति नृपः सा वर्धयति पार्थिवम् ।

वर्धनाद्रक्षणं श्रेयस्तन्नाशेऽन्यत् सदप्यसत् ॥ १४ ॥ 

न्यायप्रवृत्तो नृपतिरात्मानमर्थं च प्रजाम् । त्रिवर्गेणोपसन्धत्ते निहन्ति ध्रुवमन्यथा ॥ १५ ॥ 1 एवञ्च कृत्वा पूर्वमेव व्यापारमभिसन्धाय वार्त्तिकभूतान् षट् श्लोकाना | तंत्र पालनमधिकृत्योच्यते - आयत्तमित्यादि । वार्ता कृप्यादिलक्षणा रक्षणमाश्रिता, अन्यथा नीरक्षा परैरुपहन्यमाना कथं प्रवर्तेत । छेदः अप्रवृत्तिः । श्वसन्नपि चेष्टमानोऽपि कर्मान्तरेषु न जीवति वार्ताप्रतिबर्द्धत्वाच्छरीरस्थितेः ॥ १२ ॥ पर्जन्य इव भूतानामाधार इति । तत्र पर्जन्यः सस्यहेतुना प्रवर्षणेनाश्रयः । राजा पालनेन । द्वयोराधारत्वेऽपि राजा त्वतिरिच्यते । यदाह - - विकलेऽपीति 1 वृष्ट्या विकलेऽपि जीव्यते कन्दशाकमत्स्याद्यशनेन नतु भूपतौ रक्षा विकले परस्पराभिभवात् ॥ १३ ॥ प्रजां संरक्षतीति । एतद् दर्शयति --- पालनमस्य न निष्फलं, परस्परोपकारादिति । सा प्रजा वर्द्धयति धान्यषड्भागादिना । तत्रापि वर्धनाद् रक्षणं श्रेयः । कारणमाह – तन्नाश इति । रक्षणाभावे । अन्यदिति वर्धनं सदप्यसदेव भवतीत्यर्थः । यदपि किञ्चित् कथञ्चित् प्रजयास्य वर्धनं क्रियते, तदप्यसत् न परिशुद्धं प्रजाकिल्विषसन्नीतमित्यर्थः ॥ १४ ॥ “सम्यगि”त्येतदधिकृत्याह — न्यायप्रवृत्त इत्यादि । मन्वादिप्रणीतः पाल- १. 'ज्ञः क. पाठः २. 'नु'क. ग. पाठः. ३. 'जाः' ख घ. पाठः, ख-ग-घ. पाठः. ४. 'न्ध'