पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय प्रथमः राजास्य जगतो हेतुर्वृद्धेर्वृद्धाभिसम्मतः ।

नयनानन्दजननः शशाङ्क इव तोयधेः ॥ ९ ॥
यदि न स्यान्नरपतिः सम्यङ् नेता ततः प्रजा । 

अकर्णधारा बलवद् विप्लवेतेह नौरिव ॥ १० ॥

धार्मिकं पालनपरं सम्यक् परपुरञ्जयम् ।
राजानमभिमन्यन्ते प्रजापतिमिव प्रजाः ॥ ११ ॥

[ अथ किमर्थं राजानमधिकृत्येदं शास्त्रमुच्यत इति चेत्, लोकवृद्धिहेतुत्वाद्राज्ञः, तदभावे च लोकविनाशात् । यद् दर्शयति---राजास्येत्यादिना श्लोकद्वयन । वृद्धिर्लोकस्य त्रिवर्गप्राप्तिः, उदधेरुद्धतजलता । वृद्धाभिसम्मतः प्रजापालने । तथाहि अस्वामिकाः प्रजाः परस्पराभिभूता व्यवस्थाकारिणं राजानं चक्रुः । यथोक्तं " मात्स्यन्यायाभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे । धान्यषड्भागं दशभागं हिरण्यं चास्य भागधेयं प्रकल्पयामासुरि" (कौटि. अर्थ. १-१३-९)- ति। नयनानन्दजनन इति । नयनानामानन्दं जनयतीति, न्यायेनैव पालनात् ॥९॥ यदि राजा न स्यात् सम्यङ् नेता सम्यक् पालयिता, बलवद् विप्लवेत अत्यर्थं विनश्येत् । इहेति भूमण्डले ॥ १० ॥ कीदृशं पुनस्तमिच्छन्तीत्याह - धार्मिकमित्यादि । धर्मासुरलोभविजयिनस्त्रयो राजानः । तेषां धार्मिकं धर्मविजयिनं धर्माविरोधेन प्रवृत्तत्वात् । प्रजापतिमिवाभिमन्यन्ते प्रजाः लोकाः । लोभासुरविजयिनौ तु सर्वलोकोद्वेगकारित्वादनभिमतौ । तस्य च व्यापारद्वयं सम्यक् स्वराष्ट्रपरिपालनम् अपायादुद्धरणं च । यदा- ह "धार्मिकं पालनपरं सम्यक् परपुरञ्जयमिति । पुरं दुर्गे तदवमर्दनाच्छत्रुरुच्छिन्नो भवति, अन्यथा तदवष्टम्भादुपहन्यात् । तदनेन स्वपरमण्डलभेदाद् द्विविधो राजव्यापार इत्याख्यातो भवति । तत्र धर्मविजयिनः पूर्व प्रधानम् इतरदानुषङ्गिकं, शत्रूननवजित्य स्वराष्ट्रानुग्रहस्याशक्यत्वात् ॥ ११ ॥ १. 'न्ते । लोभा' ग-घ. पाठः,