पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः] प्रथमं प्रकरणम् । दर्शनात् तस्य सुदृशो विद्यानां पारदृश्वनः ।

राजेविद्याप्रियतया सङ्क्षिप्तग्रन्थमर्थवत् ॥ ७ ॥
उपार्जने पालने च भूमेर्भूमीश्वरं प्रति ।
यत् किञ्चिदुपक्ष्यामो राजविद्याविदां मतम् ॥ ८ ॥

अथ सप्रयोजनं शास्त्रारम्भं श्लोकद्वयेनाह - दर्शनादित्यादि । राजविद्याविदां मतं यत्त्किञ्चिदुपदेक्ष्यामः, तद् विष्णुगुप्तस्य दर्शनादिति सम्बन्धः । दर्शनमाश्रित्य । सुदृश इति यथावदधिगतविद्यार्थत्वाद् विशुद्धज्ञानस्येत्यर्थः । यथाह - विद्यानां पारदृश्वन इति । राजविद्याप्रियतयेति । किञ्चिदेव शास्त्रं कस्यचित् प्रियम् । वयमर्थशास्त्रप्रयत्वाद् राजविद्याविदां मतमुपदेक्ष्यामः, नान्यशास्त्रविदाम् । सङ्क्षिप्तग्रन्थं कौटिल्यशास्त्रात् । तद्धि साशीति प्रकरणशतं, षट् श्लोकसहस्राणि । इदं तु षट्त्रिंशत्प्रकरणं सपादं च श्लोकसहस्रम् | पुनरारम्भप्रयोजनमेतत् । एवं च मन्दबुद्धीनां सुबोधत्वज्ञापनार्थं काव्यचिह्नभूतं सर्गेपनिबन्धनमस्योपपन्नम् । अर्थवत् सङ्क्षिप्तस्यापि सतः प्रकृष्टार्थाभिधानात् ॥ ७ ॥ उपार्जने पालने च भूमेरिति मुख्यं प्रयोजनम्, 'निमित्तात् कर्मसंयोग' इति *सप्तमी । भूमिर्मनुष्यवती । तस्या आर्जनं त्रिविधं नवं भूतपूर्वं पित्र्यं च । रक्षणं द्विविधं स्वेभ्यः परेभ्यश्च । ननु रक्षितविवर्धनं वृद्धस्य च तीर्थप्रतिपादन -' मप्यस्ति । सत्यम् । अस्य द्वयस्यैव विशेषोऽयं, यतो रक्षितविवर्धनमप्यार्जनमेव, तीर्थप्रतिपादनमपि गुणवति पुत्रे निक्षेपोऽश्वमेधादौ विनियोगो वा, तद् उभयमपि सर्वथा रक्षणमेव । भूमीश्वरं प्रति अन्यस्य तु राजविद्यायामनधिकारात् । यत्किञ्चिदिति स्तोकम् । तन्मतं द्विविधं स्वमण्डलगतं परमण्डलगतं च । तत्र पूर्वं रक्षणनिमित्तम्, इतरदार्जननिमित्तम् । तदुभयमपि नाविनीतस्येति प्रथमसर्गेण तावद् दिनय उपदिश्यते । अत्र च सर्गे प्रकरणद्वयम् इन्द्रियजयो विद्यावृद्धसंयोगश्च । तत्र चेन्द्रियजयपूर्वकत्वाद् विद्यावृद्धसंयोगस्य पूर्वमिन्द्रियजय उच्यते ॥ ८ ॥ १. 'जशास्त्रप्रि' घ. पाठः. २. 'रक्षणे च' क. पाठः.

  • 'सप्तमी' इत्येतदनन्तरं 'द्वीपवती' इत्यधिकं क ख पुस्तकयोः पञ्चते । एष 'चर्मणि द्वीपि. नं हन्तीतिवद ' इति पाठस्याभासः स्यात्..