पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कामन्दकीय नीतिसारे [प्रथमः एकाकी मन्त्रशक्त्या यः शक्त्या शक्तिधरोपमः । आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ॥ ५॥ नीतिशास्त्रामृतं श्रीमानर्थशास्त्रमहोदधेः । यउदध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे ॥ ६ ॥ श्यादि, तद् इज्यादिप्रवर्तनात् शोभनमस्येति सुपर्वा । तथा च नन्देन दीयमानं प्रतिग्रहमादित्सुश्चाणक्यस्तिरस्कृत इत्यनेन सूचयति । वृत्तान्तो वा पर्वशब्देनो- च्यते । शोभनं चरितमस्येति सुपर्वा । स हि देहसङ्क्रान्त्या योगी नन्दोऽभूत् । स चैवृत्तोऽपि ननाशेत्यभिचारसामर्थ्यं दर्शयति । नन्द एव पर्वतो नन्दपर्वतः सामन्तादिभिरप्रकम्प्यत्वाद भोगिसमाश्रयत्वाच्च ॥ ४ ॥ एकाकी असहायः । मन्त्रशक्त्या ज्ञानबलेन । शक्त्येति प्रभावोत्साहशक्त्येत्यर्थः । अनेन पुरुषकारसम्पदं दर्शयति । शक्तिधरोपमः गुहोपमः अप्रतिहतशक्तिमात्रसाधर्म्यात् । इदमुक्तं भवति -- नन्दतिरस्कारामर्षितस्तत्सभायां नन्दात् पृथिवीं पृथक् करोमीति कृतप्रतिज्ञो निर्गत्य राजपुरुषैरनुबध्यमानश्चन्द्रगुप्तसंश्रयादवष्टब्धस्तस्मै नन्दराज्यं प्रतिश्रुत्य नन्दमभिचारवज्रेण व्यापाद्य तद्राज्यमादित्सुरेकाकी ज्ञानबलेन दण्डकोश सम्पन्नमाटविकं पर्वतकमुत्साद्य प्रभावोत्साहशक्तिभ्यां राक्षसाद्यमात्याधिष्ठित मौलबलान्मेदिनीमाच्छिद्य चन्द्रगुप्तायोपनीतवानिति पुरुषका-रसम्पत्कथनम् । नृचन्द्रायेति पुरुषविशेषज्ञत्वात् प्रत्युपकारविषयतां दर्शयति, नन्दभयात् तेन संरक्षितत्वादिति ॥ ५ ॥ नीतिशास्त्रामृतमुद्धृतवानित्यनश्वरकीर्त्तिसन्दर्शनम् । श्रीमानिति । अमात्यसम्पदत्र श्रीः, नन्दमुन्मूल्य तदानीं सर्वतश्चन्द्रगुप्तप्रतिष्ठापितराज्यत्वात् । एवञ्च कृतकृत्यत्वात् कीर्त्तिप्रतिष्ठापनमस्योपपन्नम् । शास्त्रार्थज्ञानसम्पद् वा श्रीः शास्त्रकरणप्रस्तावात् । विष्णुगुप्तायेति सांस्कारिकी संज्ञा, चाणक्यः कौटिल्य इति द्वे जन्मभूमिगोत्रनिबन्धने । वेधसे इ ( ति ? ब) वेधसे पृथक् शास्त्रप्रणयनादेवम् ॥ ६ ॥ १. 'दा' क ख ग पाठः. घ. पाठः. २. 'समाश्रयावष्टम्भस्त' घ. पाठः ४. 'बरखा' गन्घ, पाठः, ५. 'स इति पृ' ग. पाठः. ६॥ ३. 'लादिबलां मे' ६. व ॥' ग. पाठः.