पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] प्रथमं प्रकरणम् । जातवेदा इवार्चिष्मान् वेदान् वेदविदां वरः । योऽधीतवान् सुचतुरश्चतुरोऽप्येकवेदवत् ॥ ३ ॥

यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।

पपातामूलतः श्रीमान् सुपर्वा नन्दपर्वतः ॥ ४ ॥ नार्थाद्वंशस्यान्ववायस्योत्कृष्टतामाह । तपोविद्याद्यविच्छेदादुदितोदितवंशानामित्यर्थः । वंशस्य हि चत्वारो भेदा: -- उदितोदितः, उदितानुदितः, अनुदितोदितः, अनुदितानुदितश्चेति । विशालवंश्यानामित्यसङ्गतार्थः पाठः । एवं प्रतिग्राहका वंश्याः, तद्व्यतिरिक्तवंश्याभावादन्यपदार्थो न घटते । विशेषणसमासो वा विशालवंश्यानामिति वक्तव्यम् । वंश्यग्रहणमनर्थकम् अर्थाधिक्याभावात् । विशालवंशभवानामित्यस्मिन् पक्षेऽपि तद्धितप्रत्ययानुपपत्तिः, दिगादिषु केवलवंशशब्दस्य पाठतत्वात् । भूयसां प्रभूततराणाम् । तथाहि " कुलशतमप्रतिग्राहकाणामिति लोकप्रवादः। भुवि विश्रुतो यश्चेति योज्यम् । अनेन प्रतीतिं दर्शयति ॥ २ ॥ जातवेदा अग्निः, तद्वद् दीप्तिमानिति ब्राह्मतेजःप्रशंसा । वेदांश्चतुरोऽपि अति चातुर्यात् प्रज्ञागुणाधिक्यादेकवेदवदधीतवानित्यध्ययनसम्पत्कथनम् । वेदविदां वरो यश्चेति योज्यम् । अनेन नाध्ययनमात्रं तस्य तदर्थपरिज्ञानं चोत्कृष्टमिति दर्शयति ॥ ३ ॥ यस्याभिचारवज्रेणेति दैवसम्पत्कथनं, वैदिकेन हि हिंसात्मकेन विधिना नन्दस्योच्छेदात् । वज्रज्वलनतेजस इत्यभिचारहेतुं क्रोधं दर्शयति । स हि राज्ञा नन्देनाग्रासनतिरस्कृतो जातासाक्रोधानलस्तमभिचचार । पपातामूलत इति । समूलो ननाशेत्यर्थः । मूलं स्थानीयं तच्च पञ्चानां द्रव्यप्रकृतीनामुपलक्षणार्थं स्वामिप्रकृतिविनाशे हि तदाश्रितस्यापि मूलादिपञ्चकस्य विनाशात् । तेनाभिचारो मूलविनाशस्य कारणम् । अन्यथा तदर्थमारब्धः कथं मूलोच्छित्तयेऽपि स्यात् । अथवा त्रिवर्गसाधनहेतुत्वाद् मूलं शरीरं, तेनैव च ननाश न द्रव्यादिनेत्यर्थः । श्रीमान् विहितलब्धप्रशमनत्वात् सर्वतः प्रतिष्ठित इत्यर्थः । सुपर्वा, पर्व पञ्चद- १. 'थान्यार्थ' ग. पाठः.

  • अमात्यराष्ट्रदुर्गकोशदण्डलक्षणानाम्.

5 1