पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________


कामन्दकीय नीतिसारे वंशे विशालवंशानामृषीणामिव भूयसाम् । अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ॥ २ ॥ तथा "अग्निवायुयमार्काणामिन्द्रस्य वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ यस्मादेषां सुरेन्द्राणां मात्राभिर्निर्मितो नृपः ।

तस्मादभिभवत्येष सर्वभूतानि तेजसा । 

बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।

महती देवता ह्येषा नररूपेण तिष्ठति " ||

तथा “ ततः स भगवान् विष्णुराविवेश च पार्थिवान् । देववन्नरदेवानां नमतीदं जगत् ततः " ॥ [प्रथमः इति । तस्माद् राजा लोकपालांशत्वाद विष्ण्वनुप्रवेशाच्च देव इति पूजास्पदं भवि - तुमर्हतीति शास्त्रकारः शास्त्रारम्भे दृष्टादृष्टविघ्नोपशमनार्थं तस्यैव पूजां प्रयुक्तवान् । प्रभावादिति प्रभुशक्तेः । सा च दण्डधारणादाविर्भवति । भुवनं चतुर्वर्णाश्रमलक्षणो लोकः । शाश्वते पथि स्वस्मिन् स्वस्मिन् मार्गे । स्वधर्मकर्माभिरतं तिष्ठति अभ्युदयनिःश्रेयसप्रापकं यथास्वं पन्थानं नातिक्रामतीत्यर्थः । देव इति सविशेषं भगवद्विष्ण्वनुप्रवेशाल्लोकपालांशत्वाच्च पूज्यतां दर्शयति । श्रीमानिति विष्णुशक्त्य- नुप्रवेशं दर्शयति । किञ्च त्रिवर्गसुखं श्रीमत्ता, तया फलभूतया प्रजापालनवृत्तौ नियुज्यते, अतः स्वार्थसम्पन्नः श्रीमानिति । दण्डधार इति कर्मण्यण् । अनेन पालनोपायमाचष्टे । दण्डो हि दमनं, तं यथार्हप्रयोक्तृतया बिभ्राणो लोकं स्वमार्गे व्यवस्थापयति । उक्तञ्च-


"चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः । स्वधर्मकर्माभिरतो वर्तते स्वेषु वर्त्मसु " || इति ॥ १ ॥ यत्प्रणीताच्छास्त्र दिदं सञ्चिक्षेप, तस्याचार्यचाणक्यस्य कुलादिगुणसम्पर्णनपूर्वकं पञ्चभिः श्लोकैर्नमस्कारमाह - वंश इत्यादि । विशालवंशानामृषीणामिवाप्रतिग्राहकाणां वंशे यो बभूव तस्मै नम इति सम्बन्धः । विशालवंशानामित्यने- १. 'श्या' क-ग. पाठः.