पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

11 श्री: 11 श्रीकामन्दकप्रणीतः नीतिसारः । श्रीशङ्करार्यकृतया जयमङ्गलाख्यया नीतिसारपश्चिकया समेतः ।

  • १ इन्द्रियजयप्रकरणम् *

यस्य प्रभावाद् भुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥ १ ॥ नमः शास्त्राय महते त्रिवर्गस्यैकयोनये । नमस्तस्य प्रणेत्रे च कौटिल्याय महर्षये ॥ कामन्दकीये किल नीतिशास्त्रे प्रायेण नास्मिन् सुगमाः पदार्थाः ।

तस्माद् विधास्ये जयमङ्गलाख्यां तत्पञ्चिकां सर्वविदं प्रणम्य ||

यस्य प्रभावादित्यादि । अस्य श्लोकस्यादावुपन्यासो विघ्नोपशमनार्थः, शास्त्रमारभ्यमाणं पूज्यपूजनपूर्वकमविघ्नितप्रसरं भवतीति । तत्र प्रजापालनार्थमिदं शास्त्रं, तत्पालने च साक्षादधिकृतः स्थितिकर्ता जगतो विष्णुः, पालनशक्तिश्च तस्यैव, यथाहुः पौराणिकाः - “स्थितिकर्तास्य जगतो विष्णुरेव सनातनः । न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् " ॥ इति । तदनु तदंशभूताः तदनुप्रवेशाप्यायितशक्तयश्च शक्रादयो देवाः, स्वायम्भु- वादयो मनवः, तद्वंशप्रसूताः स्वयं विष्णुनानुप्रविश्योपबृंहिता राजानश्च । यथोक्तं- “शक्रादिरूपी परिपाति विश्वमर्केन्दुरूपश्च तमो हिनस्ति । पाकाय योऽग्नित्वमुपेत्य लोकान् बिभर्ति पृथ्वीवपुरव्ययात्मा ॥

सर्वे च देवा मनवः समस्ताः सप्तर्षयो ये मनुसूनवश्च ।
इन्द्रश्च योऽयं त्रिदशेशभूतो विष्णोरशेषास्तु विभूतयस्ताः” ॥