पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] षट्त्रिंशं प्रकरणम् ।

  • ३६. प्रकाशयुद्धप्रकरणम् *

३११ पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् । उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत् ॥ ५५ ॥ परकोटी समाक्रम्य पक्षाभ्यां सप्रतिग्रहः । कोटिभ्यां जनं हन्यादुरसा च प्रपीडयेत् ॥ ५६ ॥ * ( एवं व्यूह्य प्रयत्नेन यत्नवान् पृथिवीपतिः । विदारयेद् व्यूहकृतैर्बलैर्विद्विषतो बलम् ॥ ) यतः फल्गु यतो भिन्नं यतो दृष्यैरधिष्ठितम् । ततो रिपुबलं हन्यादात्मनश्चोपबृंहयेत् ॥ ५७ ॥ सारं द्विगुणसारेण फल्गु सारेण पीडयेत् । संहतं च गजानीकैः प्रचण्डैर (वधा ? पसा) रयेत् ॥ ५८ ॥ युद्धकाल इत्युक्तत्वात् तदिदानीं प्रकाशयुद्धं सप्तभिः श्लोकैर्दर्शयति - पक्षा- दीनामित्यादि । अथेत्यनीकप्रकरणप्रस्तावार्थम् । एकानीकेन परव्यूहं हत्वा शेषैरनीकैः परिक्षिपेत् । उरसा वा उरस्येन । कोटिभ्यां प्रपक्षाभ्याम् ॥ १५ ॥ परकोटी परव्यूहस्य प्रपक्षौ पक्षाभ्यामाक्रम्य जघनं प्रोरस्यं प्रतिग्रहको- दिभ्यां हैन्याद्, उरसा च प्रपीडयेद्, जघनम् । एतेन च तदुभयं तदुभय- पीडनेन भिद्यते ॥ ५६ ॥ यत इति । यस्मिन् परव्यूहस्य भागे । फल्गु असारम् । भिन्नं कृतोपजापं, विश्लिष्टन्यासं वा । दूष्यैः क्रुद्धलुब्धादिभिः । ततस्तस्मिन् भागे । आत्मनश्चोपबृंह- येद् बलं, परौघातप्रतिषेधार्थम् ॥ ५७ ॥ फल्गु बलं सारेण पीडयेदिति सम्बन्धः । संहतं दुर्भेद्यम् ॥ १८ ॥ १. 'प्रतिकोटी' ख. ग. पाठ:. ४. 'भिन्द्याद् ' ग. घ. ङ. च. पाठः. २. 'यि' ख. ग. पाठ:. ३. 'पादये' क. पाठः. ५. 'रघात' ग, घ, ङ. पाठः

  • इदं धनूरेखान्तर्गतं पद्यं ख. ग. पुस्तकयोर्न दृश्यते,