पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [विंश: सर्ग:]] ३१२ कामन्दकीय नीतिसारे दुर्जयान् करिणः सिंहवसासितैर्मतङ्गजैः । आहन्यात् करिणीनां वा समूहैः साध्वधिष्ठितैः ॥ ५९ ॥ सलोहजालैर्द्वढबन्धदन्तैः सुकल्पितैरूर्जितपादरक्षैः । प्रवीरयोधैर्मददुर्निवारैर्हन्याद् गजेन्द्रैर्द्विषतामनीकम् ॥ ६० ॥ एकोऽपि वारणपतिर्द्विषतामनीकं युक्तं निहन्ति मदसत्त्वगुणोपपन्नः । नागेषु हि क्षितिभृतां विजयो निबद्ध- स्तस्माद् गजाधिकबलो नृपतिः सदा स्यात् ॥ ६१ ॥ ( इति प्रकाशयुद्धं नाम षटूत्रिंशं प्रकरणम् ) इति कामन्दकीय नीतिसारे गजाश्वरथपत्तिकर्माणि, पत्त्यश्वरथगजभूमयः, दानकल्पना, व्यूहविकल्पः, प्रकाशयुद्धं नाम विंशः सर्गः । सिंहवसासिक्तैः क्षान्तिपूर्वकम् । साध्यधिष्ठितैः निपुणयोधाधिष्ठितैः ॥५९॥ सलोहजालैः आवरणैः लोहस्थगितैः शस्त्रिभिर्वा । पादरक्षाः पादगोपाः प्रतियोद्धारः ॥ ६० ॥ एकोऽपि किं पुनर्बहवः । गुणो विनयाधानम् । नागेषु हि विजयो निबद्ध इति सेनाया हस्तिनः प्रधानमङ्गमिति दर्शयति ॥ ६१ ॥ (इति प्रकाशयुद्धं नाम षड्त्रिंशं प्रकरणम् ) इति शङ्करार्यकृतायां कामन्दकीयनीतिसारपञ्चिकायां जयमङ्गलायां गजाश्वरथपत्तिकर्माणि, पत्त्यश्वरथगजभूमयः, दानकल्पना, व्यूहविकल्पः, प्रकाशयुद्धं नाम विंशः सर्गः । समाप्तश्चायं ग्रन्थः । १. ‘र्महागजैः’ क. पाठः. २. ‘व्य’ क. पाठः. ३. 'भुजां वि' क. पाठः. ४. 'र्वम्' क. ख. पाठः, ५. 'स्थितैः क. पाठः.