पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [विंश: ३१० कामन्दकीय नीतिसारे ऐते सप्तदश प्रोक्ता दण्डव्यूहास्तु भेदतः । तथा व्यूहद्वयं चैव मण्डलस्य समासतः ॥ ५३ ॥ असंहतास्तु षड् व्यूहा भोगव्यूहास्तु पञ्चधा । व्यूहज्ञैस्ते प्रयोज्याः स्युर्युद्धकाल उपस्थिते ॥ ५४ ॥ + ( श्येनः सूचीमुखो वज्रः शकटो मकरोऽम्बुजः । इत्यादयः स्मृता व्यूहास्तदाकारान् प्रकारयेत् ||) {इति व्यूहविकल्पो नाम पञ्चत्रिंशं प्रकरणम् )

तत्संस्थानत्वात् । कक्षयोः पक्षयोश्च कोणस्थयोर्मध्यस्थितेनोरस्येन यथावस्थितेन सहोभयतो रचनाविशेषच्चतुर्णामनीकानां प्रवेशानिष्कासादुद्धानकसादृश्यादुद्धानः । मध्ये उरस्यमवस्थाप्य पार्श्वयोर्द्वयोरुपर्यधस्ताच्च क्रमात् प्रसारितकक्षपक्षत्वाच्चतु- र्णामनीकानां प्रसारणवशात् काकपद संस्थानत्वाच्चतुः शाखा काकपदी । पञ्चाना- मनीकानामाकृतिसंस्थानाद् र्वज्रो गोधा च । तत्र संस्थानानि त्रीणि त्रिकानि हस्तिनामुरस्यः, ततः क्रमाच्चत्वारः पञ्च च हस्तिनः, तेषां द्वयोर्द्वयोश्च परते एकै- कम् । ए(के ? ते) त्रयस्त्रयः शाखास्थानीयां इत्युभयतःपक्षो वज्रसंस्थानत्वाद् वज्रः । तथैवोरस्यैकक्षौ चावस्थाप्ये मध्यतो गोधाया द्वौ त्रीन् द्वौ शिरस्येकमेकं जिह्वास्थानीयं न्यस्येदिति मुखतः पक्षतः एकं द्वौ त्रीण्येकमिति पादपुच्छतः तन्मध्ये पञ्चपुच्छोऽयमिति पक्षोऽयं गोधासंस्थानाद् गोधाव्यूहः ॥ ५२ ॥ 93 इदानीं व्यूहानां सङ्ख्यापूर्वकं नियोगं दर्शयति-- एत इत्यादि । सप्तदेश प्रकृतिव्यूहेन सहाष्टादश ॥ ५३ ॥ युद्धकाल इति प्रकाशयुद्धकाले ॥ ५४ ॥ ( इति व्यूहविकल्पो नाम पञ्चत्रिंशं प्रकरणम् ) १. 'इति स' मूलकोशेषु पाठ:. ४. 'षादिति चतु' ग. पाठः. ७. 'णिह' ग. घ. पाठः ८ २. 'था च स्फीते' ग. घ. पाठः ३. 'नोभ' ग. घ. पाठः. ५. 'शनि' ग. घ. पाठः. ६. 'ततो गो' ग. घ. पाठः 'ञ्च हस्तिनां पक्षाद् उभयतस्तत्र हस्तिनः' ग. घ. पाठः ९. 'तः १०. 'यास्त्रयस्त्रयः कृत्वोभ' ग. घ. पाठः. शाखासंस्था' ग. घ. पाठः, वाव' ग. घ. पाठः. १२. 'प्य तन्मध्यत ए जिह्वासंस्थया न्य' ग. घ. पाठ: १४ अपुन गघ. पाठः. + इदं धनुरेखान्तर्गतं पद्यं क. ११. 'स्यः कक्षो त्रीन् शि' ग, घ पाठः १३. 'सैकमेकं च मतौ अयं' ग. घ. पाठः. १५. श प्रोक्ताः प्र' केते.