पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ३०९ सर्गः ] पञ्चत्रिंशं प्रकरणम् | मण्डलव्यूहभेदौ च सर्वतोभद्रदुर्जयौ । अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुखः ॥ ५० ॥ अर्धचन्द्रक उद्धानो वज्रो भेदास्त्वसंहते । तथा कर्कटशृङ्गी च काकपादी च गोधिका ॥ ५१ ॥ त्रिचतुःपञ्चसैन्यानां ज्ञेया आकारभेदतः । इति व्यूहाः समाख्याता व्यूहभेदप्रयोक्तृभिः ॥ ५२ ॥

मण्डलव्यूह भेदावाह -- मण्डलेत्यादि । अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुख इति । पक्षादीनां मण्डलवृत्तिरचनया सर्वतोवृत्तिर्मण्डलः । तत्र बहिर्मुखत्वेनावस्थितः सर्वतोमुखः सर्वतः सैन्यः सर्वतोभद्रः । स एव यत्रयत्र भयातिशयस्तत्रतत्र द्विगुणमुरस्यं कल्पयित्वा तद्वत् कक्षयोश्च द्वैगुण्यादष्टानीको दुर्जयसंज्ञः । ननुं च सर्वतोभद्रेण यायाद् (सं. १९. श्लो. ४९.) इत्युक्तम् । तत् कथं पार्श्वतः पुरतो गम्यत इति । उच्यते । सर्वतोभयागमनवेलायामस्य सर्वतोमुखत्वम् । यार्नवेलायां तु तद्विधसंस्थानानामेव यातव्यमार्गाभिमुखता भविष्यति॥५०॥ असंहतभेदानाह -- अर्धचन्द्रक इत्यादि । भेदास्त्वसंहत इति । असंहत- व्यूहे ऽर्धचन्द्रादयो भेदा ज्ञेया इति सम्बन्धः । तथेति । यथार्धचन्द्रादयोऽसंहत- व्यूहभेदाः, तथा कर्कटशृङ्गादयोऽपीति ॥ ५१ ॥ अर्धचन्द्रादित्रयेण सह कर्कटकशृङ्गयादीनां त्रयाणां यथाक्रमं सैन्य साम्यं दर्शयति – त्रिचतुःपञ्चसैन्यानामाकारभेदत इति । त्रयाणामनीकानां तदाकृति- संस्थानादर्धचन्द्रः कर्कटकशृङ्गी च चतुर्णामुद्धानकः काकपादी च, पञ्चानां वज्रो गोधा चेत्येषां क्रमः । तत्र कक्षाववस्थाप्य समधिकोरस्यस्य मध्येन किञ्चिदन्तःप्रवेशाद् द्वयोश्च पक्षयोः किञ्चिदतिक्रमात् त्रयाणामनीकानां प्रवेशनिर्गमापेक्षयार्धचन्द्रसंस्थानत्वादर्धचन्द्रकः । एवम् एकेनोरस्येन प्रविश्य द्वाभ्यां कक्षाभ्यां यथावस्थितयोरेव पक्षयोर्द्विगुणीकरणादिति त्रयाणां प्रवेशंवशात् कर्कटकशृङ्गी, १. 'विश्वतो' क. ख. पाठः. २. 'यः ननु' ग. घ. पाठः. ३. 'ज्ञः । स च तथा लेखनी यः । न' क. स. पाठः, ४. 'नु स' क, ख, पाठः ५. 'पश्चात् पार्श्वगतः पु' ग. घ. पाठः. ६. 'ना' ग. घ. पाठः, ७. 'नमे' क. ख. पाठः. ८ 'ति क' ग. घ. पाठः ९. 'द्वयोः पक्षयो स्तथा तयोर्द्विगुणी' ग. घ. पाठः १०. 'ति व्यवसितव्यः' ग. घ. पाठः ११. 'शाभावात्' क. ख. पाठ: