पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ विंश: ३०८ कामन्दकीय नीतिसारे द्विगुणान्त्यस्त्र्यभिकान्तपक्षोऽन्योऽस्य विपर्यये । द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् ॥ ४७ ॥ गोमूत्रिको हिसारी च शकटो मकरस्तथा । भ ोगभेदाः समाख्यातास्तथा परिपतन्तिकः ॥ ४८ ॥ दण्डपक्षो युगोरस्यः शकटस्तद्विपर्यये । मकरो व्यवकीर्णश्च शेषः कुञ्जरवाजिभिः ॥ ४९ ॥ [ द्विगुणान्त्य इति द्विगुणावन्त्यौ पक्षौ यस्य दण्डव्यूहस्य स स्थूणाकर्णो नाम । त्र्यभिक्रान्तपक्ष इति । त्रयस्त्रयोऽभिक्रान्ताः पक्षा यस्य दण्डस्य स चतुर्गुणपक्षः एकादशानीकश्चमूमुखसंज्ञः । अन्योऽस्य विपर्यये । प्रतिक्रान्तपक्षोऽन्यो झषास्यो नाम व्यूहः । सोऽप्येकादशानीकः । द्विचतुर्दण्ड इति । दण्डग्रहणं प्रत्येकं योज्यम् । द्वौ दण्डव्यूहावेकादशानीको वलयो नाम । चतुर्दण्डो विंशत्यनीको दुर्जय इति दण्डभेदा निर्दिष्टा इति ॥ ४७ ॥ भोगव्यूह भेदानाह - गोमूत्रिकेत्यादि । पक्षादिविषमं वर्तमानो भोगः । तत्र गोमूत्रमार्गप्रतिच्छन्दो गोमूत्रिका । सर्पसृतिप्रतिच्छन्दोऽहिसारी । तयोर्योगिकेन नाम्ना निर्देशादेव लक्षणमप्युक्तं वेदितव्यम् ॥ ४८ ॥ शेषाणां लक्षणमाह - दण्डपक्ष इत्यादि । शकटसंस्थानस्य विवक्षितत्वादूर्ध्वराजी अत्र दण्डो ग्राह्यः । तथाच पक्ष इति पक्षकक्षयोः सामान्येन ग्रहणम् । यस्य पौर्वापर्येण दण्डवदवस्थितौ कक्षपक्षौ । युगोरस्यः द्विगुणोरस्यः शकटः । तद्विपर्यये मकरः तद्विपरीतसंस्थान इत्यर्थः । द्वावप्येतौ षडनीकौ । व्यवकर्णश्च शेष इति हस्त्यादिभिरावापैः मध्येऽवकीर्णः शकटो मकरो वा व्यूहः । शेषः परिपतन्तिको नाम व्यूहः । स चं स्पष्टत्वान्न दर्शितः ॥ ४९ ॥ १. 'स्त्वतिका' मूलकोशेषु पाठः . २. 'कार्द्धराजी च' ख. पाठः. ३. ' (तो ? तः) परिप- तन्तकः" क. पाठः. ४. 'प्यवकर्णी च' ख. पाठः ५. 'दिभिर्विष' ग. घ. पाठः ६. णं 'वे' क. ख. पाठः. ७. 'ति' ग. घ. पाठः. ८. 'ध्ये व्यतिकी' ग. घ. पाठः स्फुटत्वा' क. ख. पाठः. ९. तु