पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ३०७ सर्गः ] पञ्चत्रिंशं प्रकरणम् । अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्यां कक्षपक्षतः । अतिक्रान्तश्च पक्षाभ्यां त्रयोऽन्ये तु विपर्यये ॥ ४५ ॥ पक्षोरस्यैरतिक्रान्तः प्रविष्टोऽन्यो विपर्यये ।

स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः ॥ ४६ ॥ एषां यथाक्रमं लक्षणमाह-अतिक्रान्त इत्यादि । तत्र पक्षकक्षोरस्यैः समं वर्तमानो दण्ड इति पक्षादयो यस्य व्यूहस्योद्दिष्टाः, इयं तावद् दण्डप्रकृतिः । अस्याः प्रदरादयो भेदाः । अतिक्रान्तः कक्षाभ्यामिति सम्बन्धः स एव दण्डः पुरोनिर्गतकक्षः : प्रदरः । ( तस्य प्रयोगः ?) प्रतिक्रान्तः कक्षपक्षत इति सम्बन्धः । स एव दण्डः कक्षाभ्यां पक्षाभ्यां च प्रतिक्रान्तः प्रविष्टः उरस्यमात्रेण निर्गतो दृढ- कः । अतिक्रान्तश्च पक्षाभ्यामिति । दण्ड एव पक्षमात्राभ्यां निर्गतोऽसह्यः । त्रयोऽन्ये तु विपर्यये इति । प्रदरादीनां त्रयाणां यथासङ्ख्येन विपर्यये चापश्चापकुक्षिः प्रतिष्ठश्चेति त्रयोऽन्ये ज्ञेयाः । तत्र प्रदरविपर्यये प्रतिक्रान्तकक्षश्चापसंस्थानत्वाच्चापः । दृढकविपर्यये कक्षाभ्यां पक्षाभ्यां चातिक्रान्त उरस्यमात्रेण प्रविष्टश्वापकुक्षिः । असह्यविपर्यये पक्षाभ्यां प्रतिक्रान्तो रेखीभूतशेषानीकः प्रतिष्ठसंज्ञको व्यूहो भवति ॥ ४५ ॥ पक्षोरस्यैरतिक्रान्तः प्रविष्टोऽन्यो विपर्यय इति । पक्षाभ्यामतिक्रान्तः उरस्येन च प्रविष्टोऽन्यः (सु) प्रतिष्ठ इति । अन्यशब्दः काकाक्षिवदुभयत्र सम्बध्यते। अस्य सुप्रतिष्ठस्य विपर्यये अन्यः श्येनो ज्ञेयः । प्रतिक्रान्तपक्षो निर्गतोरस्यो मध्यकक्षश्च । स्थूणापक्ष इति स्थूणाकर्णो व्यूहः स्थूणेत्युच्यते । यथा देवदत्तो दत्त इति । स्थूणाकर्णस्य लक्षणं वक्ष्यति 'द्विगुणान्त्य' इति । स्थूणाकर्णावेव पक्षौ यस्य दण्डव्यूहस्य सोऽर्धतृतीयव्यूहसङ्घातः सप्तदशानीको विजयो नाम । धनुःपक्ष इति । चापव्यूहावेव पक्षौ यस्य दण्डस्य स सञ्जयोऽर्धतृतीयव्यूह सङ्घातस्त्रयोदशानीकः । द्विस्थूण इति । द्वौ स्थूणाकर्णावुपर्युपरि निविष्टौ चतुर्दशानीको विशालबिजयाख्यो व्यूहः । उपर्युपरि निविष्टैः पक्षादिभिर्यो दण्ड ऊर्ध्वगो भवति स एवंलक्षणः सूचीसंज्ञको व्यूहः ॥ ४६ ॥ १. 'न्वप' ख. पाठः. ४. 'न्त उ' ग. घ. पाठः. ७. 'हन' ग, घ पाठः. २. 'भि' ग. घ. पाठः. ३. 'स्योपदि' क. ख. चं. पाठः. ५. 'भि' ग. घ. पाठः ६ 'धनुर्व्यूहौ प' ग. घ. पाठः५