पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [विंश: ३०६ कामन्दकीय नीतिसारे मण्डलiडसंहतो भोगो दण्डश्चेति मनीषिभिः । चत्वारः प्रकृतिव्यूहा भेदास्त्वेषां प्रकीर्तिताः ॥ ४१ ॥ S ( प्रकल्पिते भुजे व्यूहे यदङ्कमधिकं ततः ।) तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगोऽन्वावृत्तिरेव च । मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥ ४२ ॥ प्रदरो दृढकोsसह्यश्चापस्तत्कुक्षिरेव च । प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ ॥ ४३ ॥ विशालविजयः सूची स्थूणाकर्णश्चमूमुखः । झषास्यो वलयचैव दण्डभेदाः सुदुर्जयः ॥ ४४ ॥ 99

भागान् कृत्वा भागमेकं कक्षयोः द्वितीयं पक्षयोः तृतीयम् उरस्ये प्रक्षिपेत् । तथा हस्तिनामश्वानां चायमेव विभागः । तथाचोक्तं *“ रथानां द्वौ त्रिभागावङ्गेष्वावपे- च्छेषमुरस्यवस्थापयेत् । तेन हस्तिनामश्वान। चावापा व्याख्याताः (कौटि अर्थ. १०. ५. १५५) इति । स चावापः प्रकीर्तितः समन्तादुप्यते प्रक्षिप्यत इति कृत्वा ॥ ४० ॥ इदानीं संस्थानतो व्यूहमेदांश्चतुर्दशभिः श्लोकैर्दर्शयति- मण्डल इत्यादि। एते च मण्डलादयश्चत्वारः स्वस्वभेदापेक्षया प्रकृतिव्यूहाः ॥ ४१ ॥ एषां स्वरूपभेदमाह - तिर्यग्वृत्तिरित्यादि । पक्षादीनां तिर्यग्वृत्तिर्दण्डः । भोगोऽन्वावृत्तिः, अनु समस्तानामनीकानामावृत्तिरन्योन्यानुगता वृत्तिर्भोगः सर्पशरीरवत् । मण्डलः सर्वतोवृत्तिः अनीकानां समन्ताद् वृत्तिर्मण्डलः । पृथग्वृत्तिरसंहतः । पृथग्ग्रहणमनीकसन्धेः पञ्चधनुः प्रमाणादपि विश्लेषतरार्थम् । विश्लिष्टतरानीकोऽसंहतः ॥ ४२ ॥ अनीकानामितरेतरासंहतत्वात् कः पुनरेषां भेद इत्याह- प्रदर इत्यादि। तत्र प्रदराद्या दुर्जयान्ताः सप्तदश दण्डभेदाः ॥ ४३ ॥ ४४ ॥ १. 'व्या' ख. पाठः. २. 'रथास्यो' ख. पाठः. ३. 'के' ङ. च. पाठः. ङ. पाठ:. ५. ' त्त्या' च. पाठः. $ धनूरेखान्तर्गतमिदं ख. ग. पुस्तकयोर्न दृश्यते. ४. 'ते'

  • " स्थानां द्वौ त्रिभागावङ्गेष्वावा-

पयेत् । शेषमुरस्यं स्थापयेत् । एवं त्रिभागोनो रथानामावापः कार्यः । तेन हस्तिनामश्वानामावापो व्याख्यातः” इति मुद्रितकौटिलीयार्थशास्त्रपाठः,