पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ३०५ सर्गः पञ्चत्रिंश प्रकरणम् । व्यूहोऽनुपृष्ठमचलः पत्त्यश्वरथदन्तिभिः । तथाप्रतिहतो ज्ञेयो हस्त्यश्वरथपत्तिभिः ॥ ३६ ॥ उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान् । हयांश्च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्तितः ॥ ३७ ॥ मध्यदेशे हयानीकं रथानीकं तु कक्षयोः । पक्षयोश्च गजानीकं व्यूहोऽन्तभिदयं स्मृतः ॥ ३८ ॥ रथस्थाने हयान् दद्यात् पदातींश्च हयाश्रये । रथाभावे तु सर्वत्र नागानेव प्रकल्पयेत् ॥ ३९ ॥ विभज्य प्रक्षिपेद् व्यूहे रथपत्त्यश्वकुञ्जरान् ।

यदि स्याद् दण्डबाहुल्यं से चावापः प्रकीर्तितः ॥ ४० ॥ व्यामिश्रं व्यूहविधानं पञ्चभिः श्लोकैर्दर्शयति -- व्यूह इत्यादि । अनुपृष्ठमिति । पुरस्तात् पत्तयः, तत्पृष्ठेऽश्वाः । तत्पृष्ठे रथाः, तत्पृष्ठे हस्तिन इति अचलो नाम । तथा हस्तिनोऽश्वा रथा: पत्तयश्चानुष्टष्ठमित्यप्रतिहतसंज्ञः । तदुभयं चतुरनीकम् ॥ ३६ ॥ उरसि उरस्ये । मध्यभेदी हस्तिभिर्दृढीकृतमध्यत्वान्मध्येन परबलस्य भेदनशीलः ॥ ३७ ॥ मध्यदेशे उरस्ये । व्यूहोऽन्तयोर्दृढोऽन्तभेदी, अन्तयोर्हस्तिभिर्हदी- तत्वात् ॥ ३८ ॥ रयस्थाने कक्षयोरित्यर्थः । हयाश्रये मध्यदेशे । पक्षयोस्तु गजानीकं स्या- देवेत्येवमपरोऽन्तभेदी । रथाभावे त्विति । सर्वत्र व्यामिश्रे व्यूहे रथाभावे तत्स्थाने नागानेव प्रकल्पयेद् अश्वपदातीनामस्थिरत्वात् ॥ ३९ ॥ विभज्य प्रक्षिपेदिति शुद्धं व्यामिश्रं वा व्यूहं कल्पयित्वा यदि दण्डबाहुल्यं स्यात् तद्दाढ्यार्थं पुनस्तस्मिन् रथादीन् विभज्य प्रक्षिपेत् । तत्र रथादींस्त्रीन् १. ‘मतिमान् ना’क. पाठः २. 'सेनावापः स की' ख. ग. पाठः ३. 'गजा इ' ग. घ. ङ. च. पाठः.