पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [विंशः ३०४ कामन्दकीयनीतिसारे प्रवीरपुरुषैरेते तिष्ठेयुः परिवारिताः । अभेदेनैव युध्येरन् रक्षेयुश्च परस्परम् ॥ ३३ ॥

फल्गु सैन्यैस्य यत्किञ्चिन्मध्ये व्यूहस्य तद्भवेत् । । युद्धवस्तु च यत्किञ्चित् प्रायस्तज्जघने भवेत् ॥ ३४ ॥ युद्धार्थं युद्धकुशलं मुण्डानीकं प्रयोजयेत् । युद्धं हि नायकप्राणं हन्येत तदनायकम् ॥ ३५॥ ( श्येनः सूची च वज्रश्च शकटं मकरध्वजः । इत्येवमादयो व्यूहाः शास्त्रज्ञैः समुदाहृताः ॥ ) ते व्यवस्थाकरणाय सेनाङ्गस्य पतयः कार्याः । तथा चोक्तम् "अङ्गदशकस्यैकः प- तिः, पतिदशकस्यैकस्यैकः सेनापतिः, तद्दशकस्यैको नायक" इति । युद्धदृष्टप्रति- क्रियाः, युद्धे दृष्टा प्रतिक्रिया प्रतिविधानं यैरिति ॥ २२ ॥ एते सेनाङ्गपतयः । तिष्ठेयुः परिवारिताः, तद्वशे प्रवीरपुरुषैः स्थातव्यमित्यर्थात् कथयति । अभेदेन सम्भूय ॥ ३३ ॥ सैन्यस्य चतुरङ्गस्य । यत्किञ्चिदसारं सैन्यं तद् व्यूहस्य मध्ये प्रोरस्ये भवेत् । एवं तत्सहिष्णु भवति । युद्धवस्तु यन्त्रायुधाद्युपकरणम् । जघने पृष्ठे ॥ ३४ ॥ मुण्डानीकमिति । यद् राजस्थानमध्वजत्वादनभिलक्ष्यभूतं तन्मुण्डानीकम् । युद्धकुशलं सैन्यं युद्धार्थ बलमध्ये नियोजयेत् । अन्यथा तत् सैन्यमनायकं हन्येत । उक्तञ्च "पितृपुत्रभ्रातृकाणामायुधीयानामध्वजं मुण्डानीकं राजस्थानं कुर्वीते" (कौटि. अर्थ. १०. ३. १५० ) ति ॥ ३५ ॥ १. 'नच यु' क. पाठः. पाठ:- ४. 'त्रा' क. पाठ:: २. 'न्यं च य' क. पाठः, ५. "ध्यस्थत्वा' ग. घ. पाठः, ३. 'प्रशस्तं ज' ख. ग. ६. 'न्यानां कु' ड. पाठः.