पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २०१ सर्गः ] पञ्चत्रिंश प्रकरणम् । उरः कक्षौ च पक्षौ च मध्यः पृष्ठं प्रतिग्रहः ।

कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह ईष्यते ॥ ३० ॥ उरस्यकक्षपक्षैस्तु व्यूहोऽयं सप्रतिग्रहः । गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः ॥ ३१ ॥ अभेद्याः कुलजा मौला लब्धलक्षाः प्रहारिणः । सेनाङ्गपतयः कार्या युद्धद्दष्टप्रतिक्रियाः ॥ ३२ ॥ तुल्यानेतान् प्रचक्षते । एवमस्मिन् पञ्चानीके व्यूहे पञ्चचत्वारिंशद्धस्तिनो भवन्ति । द्वे शते पञ्चविंशतिश्चाश्वाः । षट् शतानि पञ्चसप्ततिश्च पुरुषाः प्रतियोद्धारः, तावन्तश्च पादगोपा इति ॥ २९ ॥ सप्ताङ्गो व्यूह इष्यते पञ्चानीक एव । तद् यथा - उरस्यं कक्षौ पक्षौ च त्रीण्यङ्गानि स्थापयित्वा तेषामेव पृष्ठतः प्रोरस्यं प्रकक्षौ प्रपक्षौ च स्थापयेत् । तत्र प्रोरस्यो मध्य उच्यते, प्रकक्षौ पृष्ठं, प्रपक्षौ कोटीत्यपराणि त्रीण्यङ्गानि, प्रतिग्रहश्च सप्तममङ्गम् । सोऽपि विभिन्नसन्धानहेतुत्वाद् व्यूहे ऽन्तर्भवति ॥ ३० ॥ तंत्र सप्ताङ्गे मतभेदं दर्शयितुमाह -- उरस्यकक्षपक्षैस्त्विति । अयं षडनीको राजस्थानलक्षणेन प्रतिग्रहेण सह बृहस्पतेर्व्यूहविभागः । एष एव शुक्रस्य कक्षाभ्यां परिवर्जितः चतुरनीक इत्यर्थः । प्रपक्षपक्षोरस्यप्रोरस्यास्तूभयोरपि यथा- सम्भवं द्रष्टव्याः । तत्र शुक्रस्य पञ्चाङ्गो व्यूहः, कक्षप्रकक्षाभावात् । बृहस्पतेस्तु सप्ताङ्गः ।। ३१ ।। एवं व्यूहविधानमुक्ता सारफल्गुबलविनियोगं चतुर्भिः श्लोकैर्दर्शयति- अभेद्या इत्यादि । अभेद्याः परबलस्य । लब्धलक्षाः प्रतापवन्तः । प्रहारिणः शूराः । १. 'उच्यते' ख. ग. पाठः. २. 'क्ष' मूलकोशपाठः ३. 'व' क. पाठः ४. 'भ ५. 'सप्ता' क. ख. पाठः ६. 'क्षेष्विति' क. ख. पाठः ७. 'कारः । ८. 'रस्य' ग, घ, पाठः, नस क. ख. पाठः. ए' ग. घ. ङ. पाठः,