पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ [ विंशः १०१ कामन्दकीय नीतिसारे पादगोपाश्च तावन्तः पुरुषा दश पञ्च च । विधानमिति नागस्य कथितं स्यन्दनस्य च ॥ २७ ॥ अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः । अनीकस्य च रन्ध्रं च पञ्चचापं प्रचक्षते ॥ २८ ॥ इत्यनीकविधानेन स्थापयेद् व्यूहसम्पदः ॥ उरस्यकक्षपक्षांश्च तुल्यानेतान् प्रचक्षते ॥ २९ ॥

ययोजनया कल्पनीयाः । पञ्चाश्वाः ते च कुञ्जरस्य पुरस्तात् प्रतियोद्धारो विधेयाः ॥ २६ ॥ पादगोपाश्च तावन्त इति । हस्तिनः पादरक्षकास्तावन्त एव पञ्चाश्वाः पञ्चदशपुरुषान्विता विधेयाः । ते चरणमूलस्थाः, प्रतियोद्धारस्तु पुरस्सरा इति विशेषः । विधानमिति । एकस्य हस्तिनो व्यूहविधानमेतदुक्तम् । स्यन्दनस्य चेति । द्विविधो हि व्यूहः शुद्धो व्यामिश्रश्चेति । तत्र शुद्धो हस्तिव्यूहो रथ- व्यूहश्च । यथा हस्तिव्यूहस्येदं विधानं, तथा रथव्यूहस्यापि द्रष्टव्यम् । व्यामिश्रस्य तु विधानं वक्ष्यति ॥ २७ ॥ इति कल्प्या नव द्विपा इति । एकहस्तिविधानेन प्रत्येकं नव द्विपाः कल्पनीयाः। तच्चानीकमिति विज्ञेयम् । तथा चोक्तं " त्रीणि त्रिकाण्यनीकमि” (कौ- टि. अर्थ. १०. ५. १५५ ) ति । एवमनीके पञ्चचत्वारिंशदश्वाः शतं पञ्चत्रिंशच्च पुरुषाः प्रतियोद्धारो भवन्ति । तावन्तश्चाश्वपुरुषाः पादगोपा इति । अनीकस्यै रन्ध्रमिति । द्वयोरनीकयोरसम्बाधार्थमन्तरं पञ्चधनुः प्रमाणम् ॥ २८ ॥ 1 1 1 व्यूहसम्पदः व्यूहप्रकारान् अनीकसमुदायत्वाद् व्यूहस्यैति । अनीकभेदानाह—उरस्यकक्षपक्षांश्चेति । मध्ये त्रिकत्रयकल्पितमनीकमुरस्यम् । तस्य पा- श्र्वयोस्तत्प्रमाणौ कक्षस्थानीयौ कक्षौ । ततो बहिरुभयतः पक्षस्थानीयौ पक्षाविति । २. १. 'तु' क. पाठः. ४. 'ल्प्याः' ग घ ङ. पाठः. 'नीकयोर्द्वयोर' ग. घ. पाठः, 'द्वव्यूहो ह' क. ख. ग. घ. पाठः. ५. 'ति । त'ग घ ङ. पाठः. ७. 'स्यानी' ग, घ, ङ. पाठः, ३. 'ते' ङ. पाठः. ६. 'स्येति । रन्ध्रम-