पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ ३०१ सर्गः ] पञ्चत्रिंशं प्रकरणम् । शमान्तरस्तु पुरुषस्तुरङ्गस्त्रिशमान्तरः । कुञ्जरः स्यन्दनश्चैव स्मृतौ पञ्चशमान्तरौ ॥ २३ ॥ तथा वो खलु युध्येरन् पत्त्यश्वरथदन्तिनः । यथा भवेन्न सम्बाधो व्यायामविनिवर्तने ॥ २४ ॥ असङ्करेण युध्येरन् सङ्करः सङ्कुलावहः 1 महासङ्करयुद्धे च संश्रयेरन् महागजान् ॥ २५ ॥ अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः ।

इति कल्प्यास्तु पञ्चाश्वा विधेयाः कुञ्जरस्य च ॥ २६ ॥ माणमिह धनुर्ग्राह्यं न चतुर्हस्तम् । तस्मिन् धन्विनं स्थापयेदिति, तावत्यधिष्ठाने पदातिरेको योद्धुं व्याप्रियेत । धन्विनमिति वचनादधन्विनां स्थानमनियतम् । तच्चानुक्तमपि यथासुखं कल्पनीयम् । त्रिगुणे त्रिधनुषि । अश्वं स्थापयेत् । पञ्च- सुपञ्चसु धनुष्षु गजरथौ स्थाप्यौ तावति तेषां यथासुखं व्याप्रियमाणत्वात् ॥ २२॥ शमान्तरस्तु पुरुष इति । चतुर्दशाङ्गुलः शम इत्युच्यते । द्वयोः पदात्य- धिष्ठानयोरन्तरं शमप्रमाणं स्थापयेत् । एवमश्वाधिष्ठानयोरन्तरं त्रिशमं हस्त्यधिष्ठा- नस्यन्दनाधिष्ठानयोश्च पञ्चशममिति ॥ २३ ॥ तथा वा युध्येरन् पत्त्यादयो द्विगुणं त्रिगुणं वान्तरं परिकल्प्य, यथा व्यायामे विनिवर्तने च परस्परस्य सम्बाधो न भवेत् । सम्बाधश्चाङ्गविक्षेपविधुरत्वम् ॥ २४ ॥ तद् भङ्गकारणं सम्भवतीत्याह - असङ्करेणेति । संश्रयेरन् महागजान् न योधानिति शेषः । तदानीं पत्त्यश्वानामसञ्चारात् ॥ २५ ॥ अश्वस्य प्रतियोद्धार इति । अश्वस्य योद्धुः पुरस्तात् त्रयः पुरुषाः प्रतियोद्धारोऽग्रयायिनः स्थापयितव्याः । इति कल्प्या इति । प्रतियोधपुरुषत्र- , १. 'च' ख. ग. पाठः २. 'दस' क. पाठः. 'बा' क. ख. पाठः. ५. 'दम' क. पाठः. ३. 'कुलयु' क. पाठः. ४. 'था च ६. 'डुः त्र' ङ. पाठ;.