पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३०० कामन्दकीय नीतिसारे [विंश: साहस्रोऽश्ववर्धः शत्यः पत्तिमुख्यवधैः स्मृतः । शिरोविंशतिकं शेषं भोगद्वैगुण्यमेव च ॥ २० ॥ युग्यं हेम च कुप्यं च यो यज्जयति तस्य तत् । दद्याद् वस्त्वनुरूपं वा हृष्टो योधान् प्रहर्षयेत् ॥ २१ ॥ (इति दानकल्पना नाम चतुस्त्रिंशं प्रकरणम्)

  • ३५ व्यूहविकल्पप्रकरणम् *

पञ्चरत्नि धनुस्तस्मिन् धन्विनं स्थापयेद् युधि । त्रिगुणेऽश्वं गजरथौ योज्यौ पञ्चसुपञ्चसु ॥ २२ ॥ साहस्रोडश्ववधः सहस्रं दीयतेऽस्मिन्निति । (शतं दीयतेऽस्मिन्निति) शत्यः । शिरोविंशतिकं शेषमिति । शेषाणां शिरः प्रमाणीकृत्य विंशतिर्देया । भोगद्वैगुण्यमेव चेति । यथोक्तानामनुक्तानां च कृतकर्मणां पूर्वोचिता या यस्य- यस्य वृतिस्तस्य॑तस्य तत्तद्भाग्यद्वैगुण्यं कल्पनीयम् ॥ २०॥ स्वयं गृहीतानां च परबलद्रव्याणामनुज्ञानं, यदाह – युग्यमित्यादि । युग्यमित्याति। युग्मवाहनम्। कुप्यं कम्बलास्तरणादि । दद्याद् वस्त्वनुरूपं वेति उक्ताद् विधानान्तरं दर्शयति । योधान् प्रहर्षयेत् । तद्यथा- “ यान् यज्ञसङ्घैस्तपसा च विप्राः स्वगैषिणः पात्रचयैश्च यान्ति । क्षणेन तानप्यतियान्ति शूराः प्राणान् सुयुद्धेषु परित्यजन्तः ॥ नवं शरावं सलिलस्य पूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् । तत् तस्य मा भून्नरकं च गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येद्" ॥ इति ॥ ( इति दानकल्पना नाम चतुस्त्रिंशं प्रकरणम् ) यथा युद्धार्थ दानकल्पना, तथा व्यूहोऽपि युद्धनिमित्तमिति तद्विकल्पा उच्यन्ते । तत्र व्यूहविधानं दशभिः श्लोकैराह — पञ्चरत्नीत्यादि । पञ्चहस्तप्र- १. 'धे देयः क. पाठः. ४. 'स्थाने ध' क. पाठः. - २. 'धे तथा क. पाठ:. ३. 'सर्वे भो' मूलकोशेषु पाठः.