पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ २९९ सर्गः] चतुस्त्रिंश प्रकरणम् । ३४ दानकल्पनाप्रकरणम् * गजेष्वारोपितः साधुः शीघ्रपातैरधिष्ठितः ।

यत्र राजा तत्र कोशः कोशाधीना हि राजता ॥ १६ ॥ प्रत्य कर्मणि कृते श्लाघमानः कृतादरः । योधेभ्यस्तु ततो दद्यात् को हि दातुर्न युध्यते ॥ १७ ॥ दद्यात् प्रहृष्टो नियुतं भेराणां राजघातने । तदर्धं तत्सुतवधे सेनापतिबधे तथा ॥ १८ ॥ प्रवीराणां तु मुख्यस्य शतं शतगुणं वधे । तद कुञ्जरवधे प्रदेयं स्यन्दनस्य च ॥ १९ ॥ यथों युद्धभूमयो युद्धार्थस्तथा योधेभ्यो दानमपीति तत्कल्पनोच्यते षड्भिः श्लोकः । तत्र 'पक्षादिनानेन गृहीतकोशः पक्षादिहीनं रिपुमभ्युपेयादि' (स. १६. श्लो. ३५) त्युक्तम् । स च कोशो युद्धकाले क तिष्ठेदित्याह गजोवत्यादि । साधुः सारभूतः, देशकालानुरूपद्रव्ययुक्तो वा । शीघ्रपातैः प्रजविभिर्जनैराप्तैरधिष्ठितः । कोशाधीना हि राजतेति । राजसमूहो राजता । साचार्थतृष्णया युध्यमाना तदधीना भवति । तस्माद् राजसमीप एव कोशः स्यादिति । अन्यस्त्वाह –– रञ्जनाद् राजा । दूरस्थे हि कोशे कथं तदानीं योधान् रञ्जयेदिति ॥ १६ ॥ 1 कर्मणि कृते वक्ष्यमाणे । श्लाघमानः बहुमन्यमानः । कृतादरः यथा - कृतमानः ॥ १७ ॥ नियुतं भैराणां यथादेशप्रसिद्धानामाहतद्रव्याणां लक्षम् । तदधै पञ्चाशत्सहस्राणि ॥ १८ ॥ मुख्यनायकस्य शतं शतगुणं, दश सहस्राणीत्यर्थः । तदर्धे पञ्च सहस्राणि ॥ १९ ॥ पाठ:. १. 'यार' क. पाठः. २. 'धर्माणां' क. पाठः, 'शूरा' ग. पाठः. ३. 'धानस्य' क. ४. 'था भू' ङ. च. पाठः. ५. ‘खर्वाणाम्' क. ख. पाठः-