पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२९८ [विंशः कामन्दकीय नीतिसारे

  • (नागम्या नाम भूरेषां तेन नागाः स्मृता बुधैः ।

तस्मादेता भुवोऽत्यर्थे नागानां सम्प्रकीर्तिताः ॥ तुरगादीनि भिन्नानि प्रतिगृह्णाति यद् बलम् । प्रतिग्रह इति ख्यातः स तु कार्यो भरक्षमः ॥ द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहः । भिन्नसाधारणस्तस्मान्न युध्येताप्रतिग्रहः ॥ तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्यते । तस्माद् विद्याञ्जयाकाङ्क्षी न युध्येताप्रतिग्रहः ॥ ) जयार्थी नृपतिस्तिष्ठेद् दूरं गत्वा प्रतिग्रहः । भिन्नं च प्रतिगृह्णीयान्न हि युध्येत तं विना ॥ १५ ॥ (इति पत्त्यश्वरथगजभूमयो नाम त्रयस्त्रिंशं प्रकरणम् ) बलान्तराणां त्वगम्यां भूमिं प्रसङ्गादाह--- जयार्थीति । यत्र स्थितः स्वबलं प्रतिगृह्णाति स प्रतिग्रह उच्यते । तथा चोक्तं "द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहः । $ भिन्नसन्धारणस्तस्मान्न युध्येताप्रतिग्रहः ॥" (कौटि. अर्थ. १०.१. १५७) इति ॥ ( इति पत्त्यश्वरथगजभूमयो नाम त्रयस्त्रिंशं प्रकरणम्) १. 'विजयाथति यस्ति' क. पाठः. २. 'बुध्ये' क. पाठः. ४. 'न्त' क. ख. पाठः. ३. 'तत्स्थानं प्र' ङ. पाठः.

  • इदं धनूरेखान्तर्गतं पद्यचतुष्टयं कः पुस्तके परं दृश्यते । इति मुद्रित कौटिलीयार्थशास्त्रपाठः,

S 'भिन्नसङ्घातनं तस्माद्'