पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1. त्रयस्त्रिंश प्रकरणम् | स्वल्पवृक्षोपला क्षिप्रलङ्घनीयदरा स्थिरा। निःशर्करा विपङ्का च सापसारा च वाजिभूः ॥ ११ ॥ निःस्थाणुसिकतापङ्का निर्वल्मीकोपला समा। केदारव्रततिश्वभ्रवृक्षगुल्मविवर्जिता ॥ १२ ॥ निरुत्खाता निर्द१६:३८, २२ नवेम्बर् २०२२ (UTC)Shardashah (सम्भाषणम्)रणा खुरचङ्क्रमणक्षमा । स्थिरा चक्रसहा चैव रथभूमिः प्रकीर्तिता ॥ १३ ॥

  • ( रथानां शस्यते भूमिर्भुवः सर्वास्तु हस्तिनाम् ।

नागम्या नाम भूरेषां तेन नागाः स्मृता बुधैः ॥) मर्दनीयतरुश्छेद्यव्रततिः पङ्कवर्जिता । सुगम्यशैलविषमा हस्तिभूरिति कीर्तिता ॥ १४ ॥

  • (द्वे शते धनुषां गत्वा राजा तिष्ठेत् प्रतिग्रहे ।

भिन्नसन्धारणस्तस्मान्न बुध्येताप्रतिग्रहः ॥ ) २९७ स्वल्पवृक्षोपला वाजिनामसङ्गकारिणी भवति । क्षिप्रलङ्घनीयप्रदरवती, बृहच्छ्भ्राभावात् । स्थिरा यत्र खुरा न विशन्ति ॥ ११ ॥ निःस्थाणुसिकतापङ्का निर्वल्मीकोपला च भू: (+चक्रसहा तदारोहण - चर्यानुकूला ) केदारं क्षेत्रम् | व्रततिः वल्ली ॥ १२ ॥ - निरुत्खाता चक्राप्रतिघातिनी खुरचङ्क्रमणयोग्या स्थिरत्वात् ॥ १३ ॥ गजभूमिमाह - मर्दनीयतरुश्छेद्यत्रततिरिति । शक्यमर्दनवृक्षा छेद्य- व्रततिश्च हस्तिनां तदारोहाणां चावाधनी । सुगम्यशैलविषमेति । हस्तिनां गम्याः शैला विषमाश्च ॥ १४ ॥ ग. पाठः, १. 'नी विदरा' मूलकोशपाठः, २. निर्गता च विप' ख. ग. पाठ:. ३. 'दू' ख. ४. 'भू: सम्प्र' ख. पाठ:. ५. 'निर्दरा गंम्यशैला तु विषमा गजमेदिनी' ६. 'तू विदरा दरणवर्जिता। स्थि' ङ. पाठः. ७. 'भूमिः (' ग. घ. ङ, पाठः, ८. क. पाठ.. 'हणकानां च नाबा' ङ. पाठ:.

  • इदं धनुरेखाङ्कितं पद्यद्वयं ख. ग. पुस्तकयोः परं दृश्यते.

‡ इदं धनूरेखान्तर्गतं व्याख्यावाक्यम् उत्तरश्लोकव्याख्यानशेषतया निवेशयितुमुचितं मूला- नुपूर्व्यनुरोधात.