पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ सर्गः १९६ कामन्दकीय नीतिसारे सुव्यञ्जनाचारतेति पत्तिकुञ्जरवाजिनाम् । इति लक्षणमेतेन युक्तान् कर्मसु योजयेत् ॥ ९ ॥ (इति गजाश्वरथपत्तिकर्माणि नाम द्वात्रिंशं प्रकरणम् )

  • ३३ पत्त्यश्वरथगजभूमिप्रकरणम् *

सस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टका । सापसारा पदातीनां भूर्नातिविषमा मता ॥ १० ॥ [ वर्ष्म महाकायता । वेगिता जवः । सोऽपि त्रिविधः पूर्ववत् । तेजः शौर्यम् । शिल्पं, तत्र पदातीनां कृतास्त्रता, हस्त्यश्वानां त्वाहितविनयता । उदग्रत्वम् उन्नतपूर्वकायता । स्थैर्यं दृढकायमनस्कता । विधेयता, तत्र पदातीनां स्वामिनः, इत- रयोर्यन्तुः ॥ ८ ॥ सुव्यञ्जनता प्रशस्तलक्षणता । खाचारतो, तत्र पदातीनां शिष्टाचरणं, हस्त्यश्वानां सेनान्याद्याचौरचरणता । इति लक्षणमिति, पत्तिकुञ्जरवाजिनां स्वस्व - कर्मनिष्पादनयोग्यताया अनेन लक्ष्यमाणत्वात् । तस्मादनेन युक्तान् स्वकर्मसु यो- जयेत् । तत्र च हस्त्यश्वबललक्षणैः रथानामप्युक्तमेव, तदधीनत्वाद् रथचर्यायाः । सन्निवेश सारदारुमयत्वादिकं प्रसिद्धमेवेति नोक्तम् ॥ ९ ॥ (इति गजाश्वरथपत्तिकर्माणि नाम द्वात्रिंशं प्रकरणम् ) 3 यथा तत्कर्माणि युद्धार्थानि तथा तद्भूमयोऽपीति पत्त्यश्वरथगजभूमय उच्यन्ते पञ्चभिः श्लोकैः — सस्थूलेत्यादि । स्थूलस्थाणुभिर्वल्मीकवृक्षगुल्मैश्च योधाश्रयैः सह वर्तते युद्धभूमिः । अपकण्टका कण्टकरहिता सञ्चरणयोग्या । सापसारा अपसरणमार्गोपेता । नातिविषमा स्तोकनिम्नोन्नता ॥ १० ॥ १. 'तंक' क. पाठः. २. 'ता. प' ङ. पाठः. ३. 'चारता' घ. . पाठः. भ्यां र' ङ. पाठः. ४. 'णा-