पृष्ठम्:कामन्दकीयः नीतिसारः (जयमङ्गलव्याख्यासहितः).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सर्गः ] द्वात्रिंशं प्रकरणम् । २९५ वनदिङ्मार्गविचयो विवधासाररक्षणम् । अनुयानापसरणे शीघ्रकार्योपपादनम् ॥ ५ ॥ दीनानुसरणं घातः कोटीनां जघनस्य च । इत्यश्वकर्म पत्तेश्च सर्वदा शस्त्रधारणम् ॥ ६ ॥ शोधनं कृपतीर्थानां मार्गाणां शिविरस्य च । यवसादि च यत्किञ्चिद् विज्ञेयं विष्टिकर्म तत् ॥ ७ ॥ जातिः सत्त्वं वयःस्थानं प्राणिता वर्ष्म वेगिता । तेजः शिल्पमुदग्रत्वं स्थैर्य साधु विधेयता ॥ ८ ॥ वनदिङ्मार्गविचयः वनानां सोपद्रवाणां निरूपणमश्वैः । अनुयानं भग्नस्य परबलस्य पश्चात् सरणम्, अपसरणं पलायनम् । शीघ्रकार्योपपादनं वार्ताज्ञानादिकार्यसम्पादनम् ॥ ५ ॥ दीनानुसरणं यतोयतः सैन्यं दैन्यमापद्यते, ततस्ततोऽनुसरणम् । घातः कोटीनां बलाग्रभागानाम् । जघनस्य पृष्ठभागस्याशु परिवृत्य घातः । पत्तेश्चेति चशब्दात् सर्वभेदेषु शस्त्रधारणं कर्म ॥ ६ ॥ द्विविधाः पत्तयः युद्धयोग्या इतरे च । तत्र पूर्वेषां कर्मोक्तम्, इतरेषामाह - शोधनमित्यादि । प्रयाणे कूपादीनां शिविरस्य परिक्षेपस्य शोधनं कर्म | यवसादि च यत्किञ्चित् सम्पाद्यं तद् विष्टिकर्म विज्ञेयम् | आदिशब्दाद् यन्त्रा- वरणोपकरणादिवह्ननं ज्ञेयम् ॥ ७ ॥ जात्यादियुक्ताश्च हस्त्यादयः स्वकर्मसु क्षमा भवन्तीत्याह – जातिरित्यादि । तत्र पदातीनां जातिर्ब्राह्मणादिः, हस्तिनां भद्रमन्द्रादिः, अश्वानां बाहीककाम्बोजादिः । सत्त्वं पदातीनां व्यसनेऽभ्युदये (च) यदविकारकं, हस्त्यादीनां च दैवमानुषासुरगन्धर्वभावः । वयःस्थानं वयःस्थता त्रयाणामिति तृतीया चतुर्थी पञ्चमी च दशा । प्राणिता प्राणवत्त्वम् । प्राणस्त्रिविधः उत्तमो मध्यमोडयमश्चेति १. 'णवर्मविवेकिता' क. पाठः. २. 'देशेषु' क. ख. पाठः. ३. 'दै' उ. पाठः. ४. 'वाः' ङ. पाठः. ५. 'णित्वम्' ग, घ, ङ. पाठः. ६. 'श्च । व' ङ. पाठः,